________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८श अध्यायः] चिकित्सितस्थानम्। ३३६३
मन्ये संश्रित्य वातोऽन्तयदा नाड़ीः प्रपद्यते। मन्यास्तम्भं तदा कुर्यादन्तरायामसंज्ञकम् ॥ अन्तरायम्यते ग्रीवा मन्या च स्तभ्यते भृशम् । दन्तानां दंशनं लाला पृष्ठाक्षेपः शिरोग्रहः॥ जृम्भा वदनसङ्गश्चाप्यन्तरायामलक्षणम् । इत्युक्तस्त्वन्तरायामः--------- -~----वहिरायाम उच्यते ॥ ११ ॥१२॥ पृष्ठमन्याश्रिता वाह्याः शोषयित्वा सिरा बली। ततः कुर्याद्धनुस्तम्भं वहिरायामसंज्ञकम् ॥ चापवन्नाम्यमानस्य पृष्ठतो नीयते शिरः। उर उत्क्षिप्यते मन्ये स्तब्धे ग्रीवा च मृद्यते॥ गङ्गाधरः-अथान्तरायामलक्षणमाह--मन्ये इत्यादि। कुपितो वातो यदा द्वे मन्ये संश्रित्यान्तनांडीः प्रपद्यते, तदान्तरायामसंशकं मन्यास्तम्भ कुर्यात्। तत्रान्तः क्रोड्देशे ग्रीवा आयम्यते आयता स्यात्, मन्या च भृशं स्तभ्यते, दन्तानाञ्च दंशनं लाला च स्यात्, पृष्ठाक्षेपः पृष्ठे देशे वकं स्यात् वदनसंङ्गो मुखचालनाक्षमता ॥११ । १२॥
गङ्गाधरः-बहिरायाममाह-पृष्ठेत्यादि। पृष्ठं मन्याश्चाश्रिता वाह्या याः सिरास्ता बली वातः शोषयिखा वहिरायामसंशकं हनुस्तम्भं कुर्यात् । चापवत् धनुर्वत् नाम्यमानस्य पृष्ठतः शिरो नीयते । उरो वक्ष उत्क्षिप्यते ऊर्द्ध क्षिप्यते व्याप्त्या सर्वदेव भवति । उक्तं हि-'स्वस्थः स्यादहिताद्यानो मुहुर्वेगागमे गते' इति । किंवा यथोक्तविशिष्टत्वादहितः, अङ्गितु नैतानि सर्वाणि भवन्ति ॥ १० ॥
चक्रपाणि:-मन्ये इत्यादि अन्तरायाममाह। अन्तः यदा नाड़ीः प्रपद्यते मन्यासम्बद्धा एव शिराः यदि अन्तः प्रपद्यत इत्यर्थः। अन्तरायामसंज्ञितमिति एवंविधो मन्यास्तम्भः अन्तरायाम उच्यते। अपरस्तु मन्यास्तम्भो वक्ष्यमाणबहिरायाम इति वक्तव्यः। तन्तान्तरे तु मन्यास्तम्भः आयामयोः पूर्वरूपत्वेनोक्तः। अन्तः आयम्यत इति अन्तः आकृष्यते ॥ ११॥१२॥
चक्रपाणिः-पृष्ठमन्याश्रिता इति पृष्ठानुगतमन्यासम्बन्धाः। वाह्या इति शिराविशेषणम् । बाह्याश्च शिराः पृष्ठगता एव। केचित् तु पृष्ठमन्याश्रिता इति वातविशेषणं पठन्ति । पृष्ठतो नीयत इति पृष्ठं प्रति माकृष्यते। जातवेग इति अतिवेगः ॥ १३ ॥
For Private and Personal Use Only