________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shrik
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
३३६२
चरक-संहिता। वातव्याधिचिकित्सितम् अतिवृद्धः शरीरार्द्धमेकं वायुः प्रपद्यते । यदा तदोपशोष्यामृक् बाहुपादश्च जानु च ॥ तस्मिन् सङ्कोचयत्यूद्ध मुखं जिह्म करोति च । वक्रीकरोति नासाचू-ललाटाक्षिहनूस्तथा ॥ तदा वक्र बजत्यास्येऽभोजनं वक्रनासिकम् । स्तब्धं नेत्रं कथयतः क्षवथुश्च निगृह्यते॥ दोना जिह्वा समुचिप्ताऽफला छ सज्जति चास्य वाक् । दन्ताश्चलन्ति बध्येते श्रवणे भिद्यते स्वरः॥ पादहस्ताक्षिजद्दोरु-शङ्खश्रवणगण्डरुक् ।
अद्धे तस्मिन् मुखा वा केवले स्यात् तदर्दितम् ॥१०॥ गङ्गाधरः-अथार्दितलक्षणमाह-अतिटद्ध इत्यादि। अतिवृद्धो वायुः शरीरार्द्धम् अथवैकं केवलं शरीरं यदा प्रपद्यते, तदाऽमृगादिकमुपशोष्य तस्मिन् शरीराढ़ें ( ऊद्ध ) केवले वा शरीरे ऊद्ध सङ्कोचयति। मुखञ्च जिह्म कुटिलं करोति। नासादिकं वक्रीकरोति। हरिति शसन्तं पदम् । तदा खल्वास्ये वक्रं व्रजति सति कुटिलीभूते सति अभोजनं भोजने शक्तिहीनं वक्रनासिक कथयतः स्तब्ध नेत्रं भवति । जिह्वा समुक्षिप्ता दीना चाफला च स्यात् । ततोऽस्य वाक सज्जति। दन्ताश्चलन्ति श्रवणे च बध्येते स्वरश्च भिद्यते। पादादिषु रुग भवति। अद्ध तस्मिञ्छरीरे मुखाद्ध वा केवले कृत्स्ने मुखे वा रुक स्यात तदतिं नाम वातरोगः। इति ॥१०॥ शिराः मन्यापृष्ठाश्रिता वाह्याः संशोव्यायामयेढ वहिरिति। मन्दरुकशोफमिति मन्दरजं मन्दशोफञ्च। सुप्ता इति निःस्पन्दाः॥९॥
चक्रपाणिः-इदानीमतिबलान् बातविकारानभिधातुमुद्यतोऽहितमाह-अतिवृद्ध इत्यादि। अतिग्रहणेन वायोर्बलवत्त्वम् । उग्रकुपितत्वमाह-एकमिति। वाम दक्षिणं वा सङ्कोचयति । अभोजनमिति न समं मुखेन खादति किन्तु वक्वैकदेशेन। दोनेति अगम्भीरा, जिोति कुटिला, समुत्क्षिप्तेति निःसारिता। बाध्येते श्रवणौ यद्यपि एकपाश्रियो विकारोऽयं तथापि प्रभावात् कर्णयोर्बाधा भवति। केवल इति अझै एव। ननु यदि देहाव्यापित्वं अहितस्य तदाहितेन अङ्गेिन च को भेदः ? ब्रमः-अहि तेऽवेगितया सव्वकालं वेदना न भवति, अ तु
* अबलेति पाठान्तरम्।
For Private and Personal Use Only