________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८ अध्यायः ]
चिकित्सितस्थानम् ।
गुर्व्वङ्गं तुद्यते स्तब्धं दण्डमुष्टिहतं यथा । सरुक् स्तिमित - • -मत्यर्थं मांसमेदोगतेऽनिले ॥ भेदोऽस्थिपर्व्वणां सन्धि-शूलं मांसबलक्षयः । अस्वप्नः सन्तता रुक् च मज्जास्थिकुपितेऽनिले ॥ चिप्रं मुञ्चति बध्नाति शुक्र गर्भमथापि वा । विकृतिं जनयेच्चापि शुक्रस्थः कुपितोऽनिलः ॥ वाह्याभ्यन्तरमायामं खल्ली कुब्जत्वमेव च । सर्व्वाकाङ्गरोगांश्च कुर्य्यात् स्नायुगतोऽनिलः ॥ शरीरं मन्दरुक शोथं शुष्यति स्पन्दते तथा । सुप्तास्तन्व्यो महत्यो वा सिरा वाते सिरागते । वातपूर्णहतिस्पर्शः शोथः सन्धिगतेऽनिले । प्रसारणाकुञ्चनयोः सन्धिवृत्तिश्च वेदना ॥
इत्युक्तं स्थानभेदेन वायोर्लक्षणमेव च ॥ ६ ॥
३३६१
मांसमेदोगतेऽनिले गुर्व्वङ्गमित्यादयः स्युः । मज्जास्थिकुपितेऽनिले अस्थिपर्व्वभेदादयः स्युः । कुपितः शुक्रस्थोऽनिलः क्षिप शुक्रत्यागादीन् जनयेत् । स्नायुगतोऽनिलः बाह्यायामादीन् कुर्य्यात् । सिरागते वाते मन्दरुगादि शरीरं स्यात् सिराः सुप्तादयः स्युः । सन्धिगतेऽनिले वातपूर्ण दृतिस्पर्शशोथादयः स्युः ॥ ९ ॥
For Private and Personal Use Only
भुक्तस्य स्तम्भ इति भुक्तस्तम्भः, भुक्तवतो गावस्तम्भो भवतीति । गुर्व्वङ्गमित्यादिना मांसमेदोगतलक्षणम् । तथा भेदोऽस्थिपर्व्वणामित्यादि अस्थिमज्जगयोः समानं लक्षणम् । समानेऽपि लक्षणे विविधाशितपीतीयोक्तविशिष्टधातुलक्षणैर्विशेष उन्नेयः । सन्तति सानुबन्धा । क्षिप्रं मुखति बनातीति व्यवायकाले क्षिप्रं मुञ्चति वा चिरं धारयते । विकृतिमित्यादिना विकारयुक्तं गर्भं जनयति । वाह्येत्यादिना स्नायुगतवातलक्षणत्वेनोक्तानि बहिराया मादीनि अग्रे वक्तव्यानि । gatatray स्वeet कुब्जत्वं सवैकाङ्गत्वं कुर्य्यात् । स्नायुगत इति स्नायुगतोऽनिल इत्यनेन स्नायुगतानिलजन्याबुक्तौ । इह च सिरागतवातजन्यत्वेनोक्तौ तेनोभयवचनात् एतावायामौ शिरास्नायुगत वातजन्यावेव भवतः । उक्तं हि अन्यत्र - महाहेतुर्बली वायुः शिराः स्वायवः कण्डराः * श्रमितमिति पाठान्तरम् ।