________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३६०
चरक संहिता |
तत्र कोष्ठाश्रिते दुष्ट निग्रहो मूत्रवच्चसोः । ब्रध्नहृद्रोगगुल्मार्शः पार्श्वशूलञ्च मारुते ॥ सर्वाङ्गकुपिते वाते गात्रस्फुरणभञ्जने । वेदनाभिः परीतश्च स्फुटन्तीवास्य सन्धयः ॥ ग्रहो विमृत्रवातानां शूलाध्मानाश्मशर्कराः । जोरुत्रिकपात्पृष्ठ - रोगशोथौ गुदे स्थिते ॥ रुक् पार्श्वोदरहृन्नाभेस्तृणोद्वार विसूचिकाः । कासः कण्ठास्यशोषश्च श्वासश्चामाशयस्थिते ॥ पक्वाशयस्थोऽन्त्रकूजं शूलाटोपौ करोति च । कुच्छमूत्रपुरीषत्वमानाहं त्रिकवेदनाम् ॥ श्रोत्रादिष्विन्द्रियवधं कुर्य्यात् क्रुद्धः समीरणः ॥ त्वचा स्फुटिता सुप्ता कृशा कृष्णा च तुद्यते ।
C
तन्यते सरागा च पर्व्वरुक वग्गतेऽनिले ॥ रुजस्तीत्राः ससन्तापा वैवयं कृशताऽरुचिः । गात्रे चारूषि भुक्तस्य स्तम्भश्चासृग्गतेऽनिले ॥
[ वातव्याधिचिकित्सितम्
उपसंहारार्थमाह - एवं विधानीत्यादि । हेतुविशेषात् स्थानविशेषाच्च रोग विशेषकृत् कुपितोऽनिलो भवति । तद्विशेषोऽत ऊर्द्ध वक्ष्यते ॥ ८ ॥
1
गङ्गाधरः- तत्र स्थानविशेषे रोगानाह - तत्रेत्यादि । कोष्ठाश्रिते दुष्टे मारुते मूत्रनिग्रहादि । सर्व्वाङ्गकुपिते गात्रस्फुरणादि । गुदे स्थिते वाते विष्मूत्रादिग्रहादि । आमाशयस्थिते वाते पाश्रुगादि । पकाशयस्थो वातोऽन्त्रकूजनादि करोति । श्रोत्रादिषु स्थितः क्रुद्धः समीरण इन्द्रियवधं कुर्य्यात् । खगगतेऽनिले त्वक्षादि स्यात् । असृग्गतेऽनिले रुजस्तीत्रा इत्यादयः स्युः ।
For Private and Personal Use Only
नामया इति । हेत्वित्यादि वातव्याधिविशेष हेतुस्थान विशेषः । उक्तं हि - प्रकुपितास्तु प्रकोपणविशेषान् दूष्य विशेषान् दूषयन्ति ॥ ८ ॥
चक्रपाणिः सर्वाङ्गकुपिते इति कृत्स्रदेहकुपिते। गुढे इत्युत्तरगुदे । भातन्यने विस्तारयते ।