________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८श अध्यायः] चिकित्सतस्थानम् । ३३८६
अव्यक्तं लक्षणं तेषां पूर्वरूपमिति स्मृतम् । आत्मरूपन्तु तद् व्यक्तमपायो लघुता पुनः॥७॥ सङ्कोचः पर्वणां स्तम्भो भेदोऽस्थिपणामपि । लोमहर्षः प्रलापश्च पाणिपादशिरोग्रहः॥ खाजापाडल्यकुब्जत्वं शोषोऽङ्गानामनिद्रता। गर्भशुक्ररजोनाशः स्पन्दनं गात्रसुप्तता ॥ शिरोनासाक्षिजत्रूणां ग्रोवायाश्चापि हुण्डनम् । भेदस्तोदोऽतिराक्षेपो मोहश्चायास एव च ॥ एवंविधानि रूपाणि करोति कुपितोऽनिलः । हेतुस्थानविशेषाञ्च भवेटु रोगविशेषकृत् ॥ ८ ॥
गङ्गाधरः-अव्यक्तेत्यादि । तेषां विविधानां व्याधीनां यद् यत् स्वस्खलक्षणं तदेवाव्यक्तं यदा, तदा पूर्वरूपं तस्य व्यास्तदिति स्मृतम् । आत्मरूपन्तु खलु तस्य तस्य व्याधेः स्वस्खलक्षणन्तु तव्यक्तमेवेति ततो भेदः। अपायस्तु तेषां लघुता यदा तदा शेयः। लक्षणं वक्ष्यते ॥७॥ ___ गङ्गाधरः-विविधान् यान् व्याधीन् करोति तानाह–सङ्कोच इत्यादि। पर्वणां सङ्कोचः। शिरःप्रभृतीनां हुण्डनं वैकृतम्। तत्र विकृतिविशेषः पूर्व महारोगाध्यायेऽभिहितः। शिरोरुक् च शिरोग्रहशब्देनोक्तखादिह शिरोहुण्डनं केशभूमिस्फुटनञ्च शङ्खभेदश्च ललाटभेदश्चेति। नासाहुण्डनं घ्राणनाशः। अक्षिहुण्डनमक्षिशुलमक्षिव्युदासश्च। जत्रुहुण्डनं वक्षोघर्षश्च वक्षउपरोधश्च वक्षस्तोदश्च । ग्रीवाहुण्डनं ग्रीवास्तम्भश्च मन्यास्तम्भश्च । अनुक्तानाम्
चक्रपाणिः-अव्यक्तं लक्षणमित्यादिना पूर्वरूपमाह। अपायेति वायोश्चपलत्वेन वातव्याधीनाम् अपगतत्वमिव । लघुता च शरीरस्य । न सर्वथा वातलिङ्गाभावो येन प्रकृतलिङ्गानि सन्त्येव । अथवा वातलिङ्गानां लघुता ॥ ७ ॥
चक्रपाणिः-कुपितानां कार्यमाह। हुण्डनं शिरःप्रभृतीनाम् अन्तःप्रवेशः। अन्ये तु केशमूमिस्फुटनं शङ्खललाटभेदश्च इत्याहुः। नासाहुण्डनं घ्राणनाशः। अक्षिहुण्डनमक्षिव्युदासः । मनुहुण्डनं वक्ष-उपरोधः । ग्रीवाहुण्डनं ग्रीवास्तम्भः। उक्तं हि-व्याधयस्ते तदात्वे तु लिङ्गानीष्टानि
४२५
For Private and Personal Use Only