________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३८८
चरक-संहिता। बातम्याधिचिकित्सितम् तानुच्यमानान् पर्यायैः सहेतूपक्रमान् शृणु। केवलं वायुमुद्दिश्य स्थानभेदात् तथावृतम् ॥ ५॥ रूक्षशीताल्पलध्वन्न-व्यवायातिप्रजागरैः। विषमादुपचारात्तु दोषासस्रवणादति ॥ लकननवनात्यध्व-व्यायामातिविचेष्टितैः। धातूनां संक्षयाचिन्ता-शोकरोगातिकर्षणात् ॥ वेगसन्धारणादामादभिघातादभोजनात् । माबाधाद् गजोष्ट्राश्व-शीघ्रयानापतंसनात् ॥ देहे स्रोतांसि रिक्तानि पूरयित्वाऽनिलो बली।
करोति विविधान् व्याधीन् सर्वाङ्गकाङ्गसंश्रयान् ॥६॥ प्रधानतोऽशीतिया॑धयो नखभेदाद्याः सूत्रस्थाने महारोगाध्याये निदर्शिताः। तानशीर्ति वातजान् पर्यायः सहेतूपक्रमानुच्यमानान् शृणु। केवलं वायुमुद्दिश्य स्थानभेदात् शृणु तथा चाहतं वायु शृणु ॥५॥
गङ्गाधरः-तेषां वातरोगाणां हेतुमाह-रूक्षेत्यादि । रूक्षाद्यन्नम् । विषमादसम्यगुपचारात्। दोषाणां वमनादिनाऽतिस्रवणादजश्वाभिघातादिनाति स्रवणात् । लङ्घनाभोजनयोरत्र भेदो लङ्घनमभोजनभिन्नचतुःप्रकारसंशुद्धनादि, उत्पतनं वा। रूक्षान्नादिशीघ्रयानापतंसनान्तेभ्यो हेतुभ्यो बली बलवाननिलो रिक्तानि शुन्यानि स्रोतांसि पूरयिखा सङ्गिकाङ्गसंश्रयान् विविधान् व्याधीन् करोति ॥६॥ कथनायैव संख्या निद्दशः। अशीतिरित्यादि सूत्रे इति महारोगाध्याये। पर्यायैरिति संज्ञान्तरै।। कथं पुनस्तेऽशीतिर्नखभेदाचा उपदिष्टाः ? उच्यन्ते-केवलं वायुमुद्दिश्य केचित् उक्तास्तथा चावृक्ष बातमुद्दिश्य केचित् उक्ताः ॥३-५॥
चक्रपाणिः- रूक्षेत्यादिना सम्प्रति निदानमाह। विषमाइपचारादिति उपचारवरूप्यात् । दोषामुगित्यादौ दोषशब्देन पुरीषमपि गृह्यते। अवतंसनं गजादिभ्यः पतनम्। किंवा भवतंसनं धातूनां कर्षणम् । रिक्तानीति स्रोतांसि स्नेहादिगुणशून्यानीत्यर्थः॥६॥
For Private and Personal Use Only