________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८मा अध्यायः ] चिकित्सितस्थानम् ।
३३८७ वृषणौ वस्तिमेढच नाभ्यूरू वङ्क्षणी गुदम् । अपानस्थानमन्त्रस्थः शुक्रमूत्रशक्रियः॥ सूजत्यार्त्तवगौं च युक्ताः स्थानस्थिताश्च ते। खकर्म कुर्वते देहो धार्यते तैरनामयः॥ विमास्था ह्ययुक्ता वा रोगैः खस्थानकर्मजैः॥ शरीरं पीड़यन्त्येते प्राणानाशु हरन्ति वा ॥४॥ सङग्रामप्यतिवृत्तानां तज्जानां हि प्रधानतः।
अशीतिर्नखभेदाद्या रोगाः सूत्रे निदर्शिताः ॥ शीघ्रगतिः। नृणां गत्यादिक्रियाकृत् । अपानस्य स्थानकर्मणी आह-वृषणावित्यादि । वृषणादिगुदान्तमपानस्य स्थानम्, अन्त्रस्थश्चापानः शुक्रादिप्रवर्तन क्रियाकृत् । आर्तवगभौ च सृजति। (पञ्चानां कर्माण्याह ) ते प्राणादयः स्थालस्थिता युकाश्च समयोगयुक्ताः स्वकर्मा कुवेते अनामयो देहश्च तैर्धार्यते। विमार्गस्था इत्यादि। हि यस्माद विमार्गस्थास्त्वेते प्राणादयोऽयुक्ता अयोगातियोगमिध्यायोगयुक्ता वा स्वस्थानकर्मजै रोगः शरीरं पीड़यन्ति प्राणान् यांच-इन्ति ॥४॥
गङ्गाधरः-के रोगैः पीड़यन्ति कथं वा प्राणान् हरन्तीत्यत आहस्वामित्यादि। तज्जानां रोगाणां सयामतिवृत्तानामसा यानां मध्ये भाजनप्रसारणादीनान ग्रहणम् । अन्वस्थ इति बस्त्यादिगतः। सृजतीति निःसारयतीति यावत् । आतधगौं च सृजतीति सम्बन्धः। एतानि कर्माणि यादृशाः कुर्वन्ति तदाहयुक्ता इति अध्यापनाः। स्थानस्थिता इति यथोक्तस्थानस्थिताः। यस्मादेवम्मूताः अतो देहो धार्यते। वातानां वैगुण्यं कर्माह-विमार्गस्था इत्यादि। स्वस्थानकर्मजंरिति यस्य वायोर्यत् स्थानमुक्तं तःस्थानगतैः। तथा टीवनादि यवायोः कर्म उक्तं तजैश्च रोगैः शरीरं पीड़यन्ति। प्राणान् वातरोगेण हरन्ति च । अत्र वायोरेव भूरिप्रधानरोगकर्त तया भिन्नचिकित्साप्रयोगतया पचभेदा उक्ताः, न पित्तकफयोः अनतिप्रयोजनत्वात्। तथाहि तन्मान्तरे पित्तमपि पाचकराकसाधकालोचकभ्राजकभेदात् पञ्चविधमुक्तम्। तेषाञ्च यथाक्रम जठरामाशयहृदयष्टित्वक स्थानमुक्तम्। तथा श्लेष्मापि अवलम्बक-क्लेदक-बोधक-तर्पकश्लेषकभेदात् पञ्चविधः । तेषाम स्थानानि यथाक्रमं हृदयामाशय जिह्वा-शिरः-सन्धयः । कर्माणि - यथाक्रममवलम्बनासक्लेदनरसबोधनाक्षितर्पणश्लेषणानि पृथगुक्तानि। प्रकृतवातम्याधि
For Private and Personal Use Only