________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३३८६
चरक संहिता |
प्राणोदानसमानाख्य-उद्यानापानैः स पञ्चधा ।
देहं तन्त्रयते सम्यक् स्थानेष्वव्याहतश्चरन् ॥ ३ ॥ स्थानं प्राणस्य शीर्षोरः- कण्ठजिह्वास्यनासिकाः । ष्ठोवन चवथूद्गार - श्वासाहारादि कर्म्म च ॥ उदानस्य पुनः स्थानं नाभ्युरः कण्ठ एव च । वाक्प्रवृत्तिः प्रयत्नोज्जबलवर्णादि कर्म च ॥ स्वेददोषाम्बुवाहीनि स्रोतांसि समधिष्ठितः । अन्तरग्नेश्च पार्श्वस्थः समानोऽग्निबलप्रदः ॥ देहं व्याप्नोति सर्व्वन्तु व्यानः शीघ्रगतिर्नृ णाम् । गतिप्रसारणाक्षेप निमेषादिक्रियः सदा ॥
Acharya Shri Kailassagarsuri Gyanmandir
[ वातव्याधिचिकित्सितम्
गङ्गाधरः - कथं वायुर्बलश्च धाता च तदुच्यते । प्राणेत्यादि । प्राणातिथिभेदैः पञ्चधा स वायु तन्त्रयते नियमयति स्वस्वस्थानेषु चरत्रव्याहत एव
:
नियमयति ॥ ३ ॥
गङ्गाधरः-- प्राणादीनां स्थानादीन्याह - स्थानमित्यादि । शीर्षादयः प्राणस्य स्थानम् । तस्य येन येन कर्म्मणा तन्त्रणं तदाह-ष्ठीवनेत्यादि । उदानस्य स्थानकर्माण्याह – उदानस्येत्यादि । नाभ्यादीन्युदानस्य स्थानानि । काक प्रवृत्त्यादिकं कर्म च । समानस्य स्थानकर्म्मणी आह-स्वेदेत्यादि । स्वेदादिवाहीन स्त्रोतांसि समधिष्ठितः समानः अन्तरग्नेर्जाठराग्नेः पार्श्वस्थ अग्निबलप्रदः । व्यानस्थानकर्म्मणी आह - देहमित्यादि । सर्व्वं देहं व्यामोतीति व्यान
For Private and Personal Use Only
चक्रपाणिः - प्राणोदानेत्यादिना व्यवहारार्थं संज्ञोपदर्शन पूर्वकं प्राणादीनां स्थानं कार्म चाह - देहं तन्त्रयते इत्यादि । स्थानेष्विति वक्ष्यमाणात्मीयस्थानेषु । आहारादीत्यस आदिग्रहणादवविधा रणनिःसरणादीनि गृह्यन्ते । प्राणोदामयो द्यपि समानमुरःस्थानं तथापि कर्मभेदाद भेद एव । यथैव एकगृहस्थितमालाकार कुम्भकारयोः । प्रयतनं प्रयता ऊर्मः बलवर्णनिष्पादन मुच्यते । स्वेददोषाम्बुवाहीनीत्यादौ स्वेदवाहीनि तथाम्बुवाहीनि च खोतांसि विमाने पृथगेवानि ज्ञेयानि । क्षेषवहानि च स्त्रोतांसि सर्व्वशरीराच्येक व हि - ' वातपित्तश्लेष्मणां पुनः सर्व्वशरीरचराणां स्त्रोतांसि भयन भूतानि' । गतस्यादौ भनि