________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टाविंशोऽध्यायः । अथातो वातव्याधिचिकित्सितं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः॥१॥ वायुरायुर्बलं वायुर्वायुर्धाता शरोरिणाम् । वायुर्विश्वमिदं सव्वं प्रभुर्वायुः प्रकीर्तितः॥ अव्याहतगतिर्यस्य स्थानस्थः प्रकृतौ स्थितः । वायुः स्यात् सोऽधिकं जीवेत् वीतरोगः समाः शतम् ॥ २॥ गङ्गाधरः-अथोद्दिष्टक्रमाद् वातरोगचिकित्तिसतमाह-अथात इत्यादि। सर्च पूर्ववद व्याख्येयम् ॥१॥
गङ्गाधरः-वायुरित्यादि । वायुरायुहेतुखादायुः। वायुर्धाता देहधारणकर्ता। इदं सर्च विश्वं जगत् धारणाद वायुः। कथमायुवायुरित्यत आह-अव्याहतेत्यादि। यस्याव्याहतगतिमदादिर्वायुः स्यात्, सोऽधिकं समाः शतं जीवेदिति ॥२॥
चक्रपाणि:-ऊरुस्तम्भभेषजे विरूक्षणाद वातप्रकोपो भवतीति सम्बन्धादूरुस्तम्भानन्तरं वातव्याधिचिकित्सिवमारभ्यते। वात एव ग्याधिरिति, पक्ष विकृतश्च वातः सङ्गिकाङ्गरूपतामापनः विविधपीडाकरत्वाद् वातव्याधिरुच्यते। यदा वाताद व्याधिरिति पक्षखदा वाताद दोषदृष्यसंमूर्छनविशेषरूपत्वात् सङ्गिकाङ्गरूपो व्याधिर्वातव्याधिरुच्यते। ज्वरादयस्तु यद्यपि वातादुत्पद्यन्ते तथापि ते दोषान्तरेणापि वातं विना भवन्तीति कृत्वा नात्र शास्त बातव्याधिशब्देनोच्यन्ते। येऽपि चाख कफपित्तावृतत्वाद वाताद विकाराः व्याधित्वेन वक्तव्याः तेऽतिप्रधानं पातं विना न भवन्तीति कृत्वा वातव्याधिरूपाः। एवं यथा वातिकाच व्याधयः पृथकचिकित्सयोच्यन्ते तथा पित्तजाः कफजाश्च चिकिरस्यन्तामिति न वाच्यम् । यतः पित्तकफकृतानां व्याधीनां न तथा प्राधान्यं यथा वातजानाम्। तेन गतजानामेव पृथक् चिकित्सोच्यते। कफपित्तजानान्तु अनाविष्कृतानां वमनविरेचनादिकफपित्तचिकित्सव युक्तति शेयम् ॥१॥ __ चक्रपाणिः-वायोर्विकारं वापयितु तस्स्वभावज्ञानं विना विकृतिविज्ञानस्यापार्थक्यात् स्वभावमेव तावदाह-वायुरित्यादि। यद्यपि शरीरेन्द्रियसत्त्वात्मसंयोगमायुस्तथापि तादृशसंयोगप्रधानस्वाद घायुरपि प्रकृतिरुच्यते। एवं शरीराधारतया वायुरेव बलम्। हेतुस्वं दर्शयसाह, अव्याहतगतिः अपरित्यक्तस्वमार्गः। स्थानस्थ इति न विमार्गः। प्रकृती स्थित इति ममीणवृद्धः। वीतरोग इति निरोगः ॥२॥
For Private and Personal Use Only