________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७ अध्यायः] चिकित्सितस्थानम्। ३३८१
द्वे पले सैन्धवात् पञ्च शुण्ठया ग्रन्थिकचित्रकात् । द्वेद्व भल्लातकास्थानि विंशतिद्वे तथाढ़के॥ पारनालात् पचेत् प्रस्थं तैलस्यैतैरपत्यदम् । गृध्रस्यूरुग्रहार्थोऽर्ति-सर्ववातविकारनुत् ॥ १७ ॥ पलाभ्यां पिप्पलीमूल-नागरादष्टकटरः। तैलप्रस्थः समो दध्ना गृध्रस्युरुग्रहापहः ॥१८॥
अष्टकदरं तलम्। इत्याभ्यन्तरमुदिष्टमूरुस्तम्भस्य भेषजम् । श्लेष्मणः क्षपणन्वन्यद् वाह्य शृणु चिकित्सितम् ॥१६॥ वल्मीकमृत्तिका मूलं करञ्जात् सफलत्वचम् । इष्टकानां ततश्चूर्णैः कुर्यात् उत्सादनं भृशम् ॥ गङ्गाधरः-द्वे पले इत्यादि। सैन्धवाद् द्वे पले शुण्ठ्याः पञ्च पलानि द्वे द्वे पले ग्रन्थिकचित्रकात्। भल्लातकास्थीनि विंशतिराकृतिमानानतु विंशतिः पलानि। तथा आरनालाद् द्वे आढ़के, तैस्तैलस्य प्रस्थं पचेत् । इत्यपत्यदं तैलं पृध्रस्यादिनुत् ॥१७॥ ..
अपत्यदतैलम्। . गङ्गाधरः-पलाभ्यामित्यादि। पिप्पलीमूलपलं नागरपलमिति पलाभ्यां कल्काभ्यामष्टगुणकट्टरैस्तैलमस्थो दना समः पकः गृध्रस्यायपहः। दनः संसारकस्यैव तक्र कदरमुच्यते ॥१८॥
अष्टकदरतलम् । . गङ्गाधरः-इतीत्यादि। अन्यच्च श्लेष्मणः क्षपणं वाह्य चिकिसितं भृण॥१९॥ ..... गङ्गाधरः-वल्मीकेत्यादि । वल्मीकमृत्तिका। करञ्जात् सफलखचं मूलम्।
अजमोदा। भल्लातकास्थीनि विंशतिरिति अभिधानेन। पलाभ्यामिति पिप्पलिसमुदायात् पलाभ्याम् । अष्टकटर इति तैलादष्टगुणः कटरः । कटरं तक्रम् ॥१५-१९॥ . .
४२४
For Private and Personal Use Only