________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३८०
चरक-संहिता। [अरुस्तम्भचिकित्सितम् अपतर्पणतश्च स्याद् दोषः सन्तर्पयेत् तु तम् । युक्त्या जाङ्गलजैर्मासैः पुराणैश्चैव शालिभिः॥ रूक्षणाद वातकोपश्चेन्निद्रानाशार्तिपूर्वकः। स्नेहस्वेदक्रमस्तत्र कार्यो वातामयापहः ॥१४॥ पीलुपी पयस्या च रास्ना गोक्षुरकं वचा। सरलागुरुपाठाश्च तैलमेभिर्विपाचयेत् ॥ सक्षौद्र प्रसृतं तस्मादञ्जलिञ्चापि ना पिबेत् । अपतर्पणतो रौक्ष्यादूरुस्तम्भी विमुच्यते ॥१५॥ कुष्ठश्रीवेष्टकोदीच्यं सरलं दारु केशरम् । अजगन्धाश्वगन्धा च तैलं तैः सार्षपं पचेत् ॥ सक्षौद्र मात्रया तच्चाप्यूरुस्तम्भादितः पिबेत् ।
रौक्ष्यान्मुक्त ऊरुस्तम्भात् ततश्च स विमुच्यते ॥ १६ ॥ गङ्गाधरः-नन्वेवमामञ्च कफश्च यदि तहि किमपतर्पयेदेनमित्यत आहअपतपेणतश्चेत्यादि। दोषः स्यादुरुस्तम्भदोषस्य दुष्टिः स्यादपतर्पणतस्तस्माद युक्त्या सन्तर्पयेत् । कैरित्यत आह-युक्त्येत्यादि । रूक्षणादित्यादि। अन्यैरेवमेव रूक्षोपचारैयदि निद्रानाशादिपूर्वको वातकोपः स्यात्, तदा तत्र स्नेहस्वेदक्रमो वातामयोक्तः कार्यः ॥१४॥ - गङ्गाधरः-तत्र स्नेहक्रममाह-पीलुपीत्यादि। पीलुपी मूळ, पयस्या क्षीरविदारी। पाठान्तैः कल्कैश्चतुर्गुणजले तैलं विपाचयेत् । तत्तैलं सक्षौद्रं प्रसृतं पलद्वयं कोष्ठापेक्षयाञ्जलिं कुड़वं वा पियेत् ॥१५॥
गङ्गाधरः-कुष्ठेत्यादि। अजगन्धा यमानी। कुष्ठादिभिः कल्कैः सार्षपं. तैलं चतुर्गुणजले पचेत्। तच्चापि तैलं मात्रया सक्षौद्रं पिबेत् ॥१६॥
धक्रपाणिः-आवस्थिकं क्रममाह-अपतर्पणेत्यादिना। रूक्षणादित्यादिना स्नेहविधान. मावस्थिकम्, तेन सामान्येनात्र विहितस्नेहनिषेधेन समं न विरोधि, अस्य विरोधापवादत्वात् ॥१४॥ चक्रपाणिः--पीलुपी मोरटः, राम्राभेद इत्यन्ये। सौमिति पादिकक्षौद्रम्। अजगन्धा
For Private and Personal Use Only