________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७श अध्यायः]
२७श अध्यायः] चिकित्सितस्थानम् ।
३३७६ शाङ्गेष्टां मदनं दन्तीं वत्सकस्य फलं वचाम् । भल्लातकं समूलाञ्च पिप्पलों कथितान् पिबेत् ॥ मूवोमारगबधं पाठां करजं कुलकं तथा। पिबेत् तुल्यं मधुयुतं चूर्ण वा वारिणाप्लुतम् ।। सतौद्र दधिमण्डै; ऊरुस्तम्भविनाशनम् । मूर्खामतिविषां कुष्ठं चित्रकं कटुरोहिणीम् ॥ पूर्ववद गुगगुलुमूत्रे रात्रिस्थितमथापि वा। वर्णक्षीरीमातविषां मुस्तं तेजोवतीं वचाम् ॥ सुरातां कटुकं कुष्ठं पाठां कटुकरोहिणीम् । लेहयेन्मधुना चूर्ण सक्षौद्र वा जलप्लुतम् ॥ फबी व्याघ्रनखं हेम पिबेद वा मधुसंयुतम् । त्रिफलां पिप्पली मुस्तं चव्यं कटुकरोहिणोम् ।
लिह्याद् वा मधुना चूर्णमूरुस्तम्भादितो नरः ॥ १३॥ सस कल्कान् मधुना सह पिवेदिति । पुनः सक्षौद्राणीति द्वितीयादियोगेषु मधुनिवृत्तिभ्रान्तिनिरासार्थम् ॥१२॥
गङ्गाधरः-शाष्टिामित्यादि। शाईष्टादीन् पक्त्वा कथितान् तान् पिबेत् । मूर्वामित्यादि। मूळदीनां चूर्ण मधुना पिबेद वारिणाप्लुतं वा पिबेत् । सक्षौद्रमित्यादि। मूर्खादिकटुरोहिण्यन्तानां चूर्ण सक्षौद्रं पिबेद दधिमण्डै पिवेदिति पूर्वेणान्वयः। पूर्ववदित्यादि। गोमूत्रे रात्रिस्थितं दिवाशुष्कमित्येवं सप्ताह पूर्ववभावितं गुगगुलमथवा सक्षौद्रं दधिमण्डैर्वा पिवेदिति पूर्वणान्वयः। स्वर्णक्षीरीमित्यादि। स्वर्णक्षीर्यादीनां चूर्ण मधुना लेहयेदथवा जलाप्लुतं सक्षौद्रं पिबेत् । फलीमित्यादि। फली प्रियङ्गुः। हेम नागकेशरम्, फली. प्रभृतित्रयं चूर्णयिखा मधुयुतं पिवेत् । त्रिफलादीनां चूर्णश्च मधुना लिह्यात् ॥१३
चक्रपाणिः-शाष्टिा गुञ्जा,स्वादुकण्टकं विकतम्। पूर्ववदिति पूर्वेण सम्बध्वते । गुग्गुलुन मुत्रे उषितं पिवेदिति योज्यम्। जलान्वितं पिबेदिति शेषः। फली न्यग्रोधः। हेम नागकेशरम् ॥ १३ ॥
For Private and Personal Use Only