________________
Shri Mahavir Jain Aradhana Kendra
३३७८
www.kobatirth.org
चरक संहिता ।
रूक्षोपचारं स यदा यवश्यामाककोद्रवान् । शाकैरलवणैर्दद्यात् जलतैलोपसाधितैः ॥ सुनिषगणक निम्बार्क- वेत्रारग्बधपल्लवैः । वायसीवास्तुकैस्तिक्तैरभ्यश्च कुलकादिभिः ॥ १० ॥ चारारिष्टप्रयोगैश्च हरीतक्यास्तथैव च । मधूदकस्य पिप्पल्या चोरुस्तम्भविनाशनम् ॥ ११ ॥ समङ्गा शाल्मलीबिल्वं मधुना सह ना पिबेत् । तथा श्रीवेष्टकोदीच्य देवदारुनतान्यपि ॥
चन्दनं धातकी कुष्ठं तालीशं नलदं तथा । मुस्तं हरीतकी लोध' पद्मकं तिक्तरोहिणी ॥ देवदारु हरिद्र द्रो वचा कटुकरोहिणी । पिप्पलीपिप्पलीमूलं सरलं देवदारु च ॥ चव्यं चित्रकमूलञ्च देवदारु हरीतकी । सच्चौद्रानर्द्धश्लोकोक्तान् कल्कानूरुग्रहापहान् ॥ १२ ॥
-
*
Acharya Shri Kailassagarsuri Gyanmandir
गङ्गाधरः– युक्त्या किं कुर्य्यात् तदाह - रूक्षोपचारं कुर्य्यादिति पूर्वेणान्वयः । स यदान्नं काङ्क्षति तदा यवाद्यन्नानि जलतलसाधितः शाकैर्दद्यात् । शाकान्याह । सुनिषण्णकेत्यादि । कुलकादिभिरन्यैस्तिक्तः पटोलपत्रादिभिस्तिक्तः । जलतैलोपसाधितैरिति योजना ॥ १० ॥
गङ्गाधरः- क्षारारिष्टयोः प्रयोगेर्हरीतक्यादिप्रयोगश्च ऊरुस्तम्भविनाशनं स्यात् ॥ ११ ॥
गङ्गाधरः – संशमनानाह । समङ्गेत्यादि । अर्द्धश्लोकोक्तानुग्रहापहान्
[ ऊरुस्तम्भचिकित्सितम्
चक्रपाणिः - वायसी काकमाची । कुलकं कारवेल्लकम् । शाल्मलं शाल्मली । श्रीवेष्टकलता । एतानि मधुना पिबेदिति सम्बन्धः । मुस्तेत्यादिकाः पञ्च योगाः अर्द्धश्लोकोक्का उरु ग्रहापहाः ॥१० - १२
For Private and Personal Use Only
इतःपरं "भल्लातकं समूलाच पिप्पलीं पञ्च तान् पिबेत्" इत्यधिकः पाठः चक्रसम्मतः ।