SearchBrowseAboutContactDonate
Page Preview
Page 1148
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७श अध्यायः चिकित्सितस्थानम् । ३३७७ श्लेष्मस्थानगतः श्लेष्मा पित्तश्च वमनात् सुखम् । हर्त्तमामाशयस्थौ च सयेत् तावुभावपि ॥ पक्वाशयस्थाः सर्वेऽपि वस्तिभिर्मूलनिर्जयात् । शक्या न त्वाममेदोभ्यां स्तब्धा जबोरुसंस्थिताः॥ वातस्थाने हि तच्छेत्यात् तयोः स्तम्भाच्च तद्गताः। न शक्याः सुखमुद्धत जलं निम्नादिव स्थलात् ॥ तस्य संशमनं कुर्यात् क्षपण शोधनं तथा। आधिक्यादामकफयोर्युक्त्यपेनः सदा भिषक् ॥ ६॥ श्लेष्मस्थानगतो यः श्लेष्मा पित्तश्च स्वस्थानश्च यत् तद् वमनाद हत्तुं सुख 'भवति, तस्मादामाशयस्थौ तावुभौ पित्तश्लेष्माणावपि वमनेन स्रसयेत् । पकाशयस्थाः सव्वऽपि वातपित्तकफा वस्तिभिमलनिज्जयात् जेतुं शक्या भवन्ति, न तु जङ्खोरुसंस्थिता आममेदोभ्यां स्तब्धा जेतु शक्याः। कस्मात् ? वातस्थाने हीति। हि यस्मादस्मिन्नूरुस्तम्भे तच्छत्याद वातशैत्याद वातस्थाने दोषास्तयोर्जङ्खोवाः स्तम्भाच न सुखं हत्तुं शक्या यथा निम्नात् स्थलाज्जलं हत्तुं न सुखं शक्यमिति। तस्माद वमनं न कार्यमिति। स्नेहनवस्ति. कर्म विरेचनवमनप्रतिषेधाद् यत् कार्यं तदाह-तस्येत्यादि। क्षपणं शोधन क्षपणेन यच्छोधयति तच्छोधनं कुर्यात् । कस्मात् ? आमकफयोराधिक्यात् । कयं क्षपयेदित्यत उक्तं युक्त्यपेक्ष इति। युक्त्या क्षपणशोधनं कुर्यात् ॥९॥ विवरणे एव निरूहोऽप्युक्तः। उक्तदोषहरणासामर्थ्य वमनविरेचननिरूहाणां क्रमेण विवृण्वनाहश्लेष्मस्थानगत इत्यादि। हत्त शक्यमिति विभक्तिलिङ्गविपरिणामाद् योजनीयम्। तावुभौ निहत्तमशक्यौ। सर्वे हि वातपित्तश्लेष्माणः। मूलनिउर्जयादितिपदं वमनमित्यनेन तथा वस्तिस्त्यिनेन योज्यम् । मूलनिर्जयादिति मूलच्छेदात्। वमनादीनां साध्यं विषयं दर्शयित्वा असाध्यं विषयमाह-शक्येत्यादि। तथा मेदसः स्तब्धत्वेन वमनादीनां जोरस्थानेऽसमर्थत्वं शेयम् । अरस्तम्भदोषस्य वमनादीनामसामर्थ्य हेत्वन्तरमाह-वातस्थान इति। जङ्घोरुरूपे वातस्थाने। तच्छत्यादिति वातशैत्यात्। चिकित्सामाह-तस्येत्यादि। तस्योरुस्तम्भस्य शमनं कर्तव्यं न शोधनमित्यर्थः। क्षपणं शोधनम् आमकफयोः कुर्य्यादिति योजना। तत क्षपणं शोषणं द्रवभागविशोषणम् ॥९॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy