________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३३७६
Acharya Shri Kailassagarsuri Gyanmandir
चरक संहिता |
जङ्घोरुग्लानिरत्यर्थं शश्वच्चानाहवेदना । पदञ्च व्यथते न्यस्तं शीतस्पर्शं न वेत्ति च ॥ संस्थाने पीने गत्यां चालने चाप्यनीश्वरः । अन्यनेयौ हि संभग्नावरू पादौ च मन्यते ॥ ७ ॥ यदा दाहार्त्तितोदात्त वेपनः पुरुषो भवेत् । ऊरुस्तम्भस्तदा हन्यात् साधयेदन्यथा नवम् ॥ ८ ॥ तस्य न स्नेहनं कार्य्यं न वस्तिर्न विरेचनम् । न चैव वमनं यस्मात् तन्निबोधत कारणम् ॥ वृद्धये श्लेष्मणो नित्यं स्नेहनं वस्तिकर्म्म च । तत्स्थस्योद्धरणे चैव न समर्थ विरेचनम् ॥
[ ऊरुस्तम्भ चिकित्सितम्
गङ्गाधरः- रूपमाह - जङ्गो रुग्लानिरित्यादि । अन्यनेयौ संभाविवोरू पादौ च स मन्यते ॥ ७ ॥
गङ्गाधरः - असाध्यलक्षणमाह - यदेत्यादि । अन्यथा दाहाद्यभावे साधयेद्, यदि नवः स्यादिति साध्यलक्षणम् ॥ ८ ॥
गङ्गाधरः- तस्येत्यादि । तस्योरुस्तम्भिनः स्नेहनादिकं यस्मान्न कार्य्य तत्कारणमाह-वृद्धय इत्यादि । स्नेहनं वस्तिकर्म च श्लेष्मणो वृद्धये नित्यमव्यभिचारि, तस्मान्न स्नेहनं वस्तिकर्म च कार्य्यं स्यात् । एवं तत्स्थस्य खलूरुस्थस्य श्लेष्मण उद्धरणे विरेचनं न समर्थं तस्मान्न विरेचनं काय्र्यम् ।
For Private and Personal Use Only
चक्रपाणिः – जोरुग्लानिरित्यादि तु लक्षणं भिन्नसामग्रीकं मते, अन्ये तु दोषप्रयोगकृतं. असाध्यकक्षणमेतदाहुः ॥ ७ ॥ ८ ॥
चक्रपाणि: - सम्प्रति स्नेहवस्त्यादिकप्रतिषेधोपपत्तिमाह - तस्येत्यादि । स्नेहस्य दोषो यद्यपि पूर्व उक्तः, तथापीदानीं यथा दोषकारकं स्नेहनं भवति तथा प्रतिपाद्यते । शिरोविरेचनज्ञास सब्धैथैवासम्भाव्यमानत्वादेव नोपन्यस्तमिति ज्ञेयम् । स्नेहनमिति स्नेहनं वस्तिकम्मं च श्लेष्मबुदि करत्वान युक्तम् । किंवा वस्तिकर्म्मविशेषणं स्नेहनमिति पदम् । तेनानुवासनमिति लभ्यते । निस्तु विरेचनशब्देनैव शोधनाभिधायिना गृहीत एव, अतएव ऊरुस्तम्भदोषोद्धरणासमर्थाशोधन