________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२७श अध्यायः · ]
चिकित्सितस्थानम् । गौरवायाससङ्कोच -दाहरुक्सुप्तिकम्पनैः । सतोदभेदस्फुरणैर्युक्ता देहं निहन्त्यसून् ॥ ४ ॥ गुरुः श्लेष्मा समेदस्को वातपित्तेऽभिभूय तु । स्तम्भयेत् स्थैर्यशैत्याभ्यामूरुस्तम्भस्ततो मतः ॥ ५ ॥ प्रापं तस्य निद्राति-ध्यानं स्तिमितता ज्वरः । लोमहर्षोऽरुचिश्छर्दिर्जङोव्वः सदनं तथा ॥ वातशङ्किभिरज्ञानात् तस्य स्यात् स्नेहनात् पुनः । पादयोः सदनं सुप्तिः कृच्छ्रादुद्धरणं तथा ॥ ६ ॥ स पुनम रवा
तद्वदूरुगतः कफः स्थिरमसंक्षोभ्यं यथा स्यात् तथा तिष्ठति । दिभिर्देहं युक्तत्वाsसून निहन्ति ॥ ४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
गङ्गाधरः– कस्माद्दूरुस्तम्भ उच्यते गुरुरित्यादि । समेदस्को गुरुः श्लेष्मा वातपित्त अभिभूय च स्थैर्यशैत्याभ्यामूरू यस्मात् स्तम्भयेत् तत ऊरुस्तम्भो मतः । वातपित्तेऽभिभूयेति प्रगृह्यस्य न प्रकृतिभावोऽपवादविषयेऽप्युत्सर्गाभिनिवेशात् ।। ५ ।।
गङ्गाधरः- तस्य पूर्व रूपमाह - प्राग्रपमित्यादि । जङ्घान्त्रः सदनमवसाद'। इत्येवं पूर्व्वरूपे खलूरुस्तम्भपूर्व्वरूपतया ज्ञानाभावात् वातव्याधिरयमित्येवमाशङ्किभिस्तस्य नरस्य स्नेहक्रियाकरणात् तु पादयोः सदनादि स्यात् ॥ ६ ॥
*
३३७५
यद्यपि रुस्तम्भस्य विदोषजनितत्वमिहोक्तं तथा सूतस्थानेऽपि एकोरुस्तम्भः सिदोषान् इत्यनेनोक्तस्तथापि कफप्राधान्यादत्र कफ एवोपदिष्टः । अतएवाग्रे ऊरुश्लेष्मेत्यादिना ऊरुस्तम्भशब्दनिरुक्ति उत्पादसामग्रीचाह ॥ ४ ॥
चक्रपाणिः - स्थैय्र्यशैत्याभ्यामित्यनेन स्तम्भनक्रियामाह । तथाच स्यैय्र्यशैत्ययोः कफगुणयोः स्तम्भनकरणे कारणतां दर्शयति । ऊरुस्तम्भे स्नेहप्रयोगजं दोषमाह - वातशङ्कभिरित्यादि । वातशङ्का चास्मिन् सुप्तिसङ्कोचादिना वातसमानलिङ्गदर्शनाद् भवति । अस्य संस्नेहेन दोषाः कृच्छादरणमित्यन्तोकाः ॥ ५ ॥ ६ ॥
उरुइलेष्ममेति चक्रसम्मतः पाठः ।
For Private and Personal Use Only