________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३७०
चरक-संहिता। [त्रिमर्मीयचिकित्सितम् कुर्याच्छेषेषु रोगेषु क्रियां खां स्वाचिकित्सितात् । शेषष्पादौ च निर्दिष्टा सिद्धौ चान्या प्रवक्ष्यते ॥ १३३॥
_ . तत्र श्लोकाः। वातपित्तकफा नणां वस्तिहृन्मूर्द्धसंश्रयाः। तस्मात् तत्स्थानसामीप्यात् हर्त्तव्या वमनादिभिः॥ अध्यात्मलोको वातादौर्लोको वातरवीन्दुभिः । पीड्यते धार्यते चाणि विकृताविकृतस्तथा ॥ विरूद्धरपि न त्वेते गुणैनन्ति परस्परम् । दोषाः सहजसात्म्यत्वाद घोरं विषमहीनिव ॥ १३४॥ गङ्गाधरः-उपसंहरति। कुर्यादित्यादि। शेषेषु रोगेषु खात् चिकित्सितात् स्वां क्रियां कुर्यात् । शेषेषु रोगेष्वादौ खल्वितः पूर्व क्रिया निर्दिष्टा, सिद्धौ सिद्धिस्थाने चान्या क्रिया प्रवक्ष्यते इति ॥१३३॥
गङ्गाधरः- श्लोका इत्यादि। वातेत्यादि। नृणां वस्त्यादिसंश्रया वातादयस्तद्वस्त्यादिस्थानसामीप्याद् वमनादिभिर्हर्त्तव्या। अध्यात्मेत्यादि। अध्यात्मलोक आत्मानमधिकृत्य लोक एकैकः प्राणी वाताद्य विकृताविकृतैः पीड्यते धार्यते च तथा, यथा वातरवीन्दुभिर्विकृताविकृतरयं वायो लोकः पीव्यते धार्यते च। ननु तर्हि शारीरा वातादयो विकृतिमापन्ना वातरवीन्दव इव लोकं प्राणिनं पीड़यन्तु अविकृतास्तु धारयन्तु, ते हि परस्परं विरुद्धगुणाः परस्परं कथं न पीड़यन्तीत्याशङ्कायामविकृता विकृताच दोषा यथा न पीड़यन्ति वातरवीन्दव इव तथा उच्यते। विरुद्धरित्यादि। तण्डुलानां समत्वं सिद्धमिति। शेषेषु रोगेष्विति श्वासकासज्वररक्तपित्तशोषेषु पीनसोपद्रवतथोक्तेषु। भेषेषु रोगेष्वित्यादौ शेषशब्दनिर्देशेन भनुक्तत्रिमर्मजरोगग्रहणम्। आदौ निर्दिष्टा इति सामान्यादिहैव सिमर्मजरोगादिष्टा चिकित्सा ज्ञया। सिद्धौ वान्या प्रवक्ष्यते इति सिमर्मजायां सिद्धौ वक्ष्यते ॥ १३-१३३ ॥
चक्रपाणिः- उक्तानुक्तचिकित्सार्थमाह-वातपित्तकफा इत्यादिषु वमनादीनां कर्मणां मध्ये यस्य कर्मणः समीपदोषहरणसामर्थ्य भवति, तेन फर्मणा हर्त्तव्येति। वातादीनामेव विकृताविकृतानां देहपीड़कत्वमाह-अध्यात्मेत्यादि। अध्यात्मलोकश्चेतनलोकः। लोक इति जगत् । अव दृष्टान्ते इन्दुस्थानीयः श्लेष्मा रविस्थानीयं पित्तम्, विकृतैः पोच्यते अविकृतैर्धार्यते इति व्यवस्था। दोषाणां यस्य गुणविरोधात् सम्भूय कार्यकरणे यथा विरोधो न भवति तदाहविरुदैरपीति। परस्परविरुद्धैरपि यथा श्लेष्मणः स्नेहपैच्छिल्यगौरवादीनां वातगुणै रौक्ष्क्ष.
For Private and Personal Use Only