________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६श अध्यायः]
चिकित्सितस्थानम्। ३३६६ प्रपौण्डरीकमधुक-पिप्पलीचन्दनोत्पलैः। काषिकैस्तैलकड़वो द्विगुणामलकीरसः॥ सिद्धः स प्रतिमर्षः स्यात् सर्वशीर्षगदापहः। पलितनो विशेषेण कृष्णात्रयेण भाषितः ॥ १३१ ॥ क्षीरं पियालं यष्टया जीवकायो गणस्तिलाः । कृष्णा ® वक्तप्रलेपः स त्वचि रोमवलोहितः॥ तिलाः सामलकाश्चैव किञ्जल्को मधुकं मधु । रञ्जयेद् बृहयेच्चैतत् केशान् मूर्खप्रलेपनात् ॥ पचेत् सैन्धवयुक्ताम्लैरयश्चूर्ण सतण्डुलम् । तेनालिप्तं शिरः शुद्धमस्निग्धमुषितं निशि ॥ तत् प्रातस्त्रिफलाधौतं स्यात् कृष्णस्निग्धमूईजम्।
अयश्चूर्णोऽम्लपिष्टश्च रागः सत्रिफलो वरः॥ १३२॥ गङ्गाधरः-प्रपौण्डरीकेत्यादि। प्रपौण्डरीकादिभिः प्रत्येकं काषिकैः कल्कः ॥१३१॥
गङ्गाधरः-क्षीरमित्यादि। जीवकाद्यो गणो जीवनीयदशकः। कृष्णास्तिलाः स एष वक्तप्रलेपः। तिला इत्यादि। कृष्णास्तिला आमलकफलानि किअल्कः पग्रस्य मधुकं मधु चैतत् सर्वं पिष्ट्वा मूद्धि प्रलेपनात् केशान् रञ्जयेत् बहयेच्च। पचेदित्यादि। सैन्धवं चाम्लद्रवञ्चायसश्चूर्णश्च तण्डुलश्च पचेत् । अम्लद्रव्यद्रवं पाकोपयुक्तं देयम्। प्रलेपयोग्यमवता-म्। तेन प्रलेपेन अस्निग्धं रूक्षं तैलादिवजितं शिर आलिप्तं निशि चोषितं प्रातःकाले त्रिफलाकायेन धौतं तत्र कृष्णं स्निग्धश्च मूर्द्धजं स्यात् । अयश्चर्म इत्यादि। अम्लद्रवद्रव्यपिष्ट एवायसश्चूर्णत्रिफलासहितः प्रलेपः वरो राग उत्तमः केशरञ्जनमिति ॥ १३२॥
चक्रपाणिः-सामलका इत्यादियोगाः केशरञ्जकाः। पचेत् सैन्धवेत्यादौ सैन्धवायचूर्ण. * वक्त प्रलेपः स्यात् हरिलोमनिवारणः इति तथा यष्टयाह्नतिलकिअल्क-क्षौद्रमामलकानि च इति च पाठान्तरं कचिद दृश्यते।
For Private and Personal Use Only