________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३६८
चरक-संहिता। त्रिमर्मीयचिकित्सितम् प्रपौण्डरीकं मञ्जिष्ठा लोध्र कृष्णागुरुत्पलम् ।
आम्रास्थि कर्डमः कृष्णो मृणालं रक्तचन्दनम् ॥ नीली भल्लातकास्थीनि काशीशं मदयन्तिका। सोमराज्यसनः शस्त्रं कृष्णौ पिण्डीतचित्रको । ® पुष्करा नकाश्मर्याण्याम्रजम्बूफलानि च । पृथक् पञ्चपलैर्भागः सुपिष्टैराढ़कं पचेत् ॥ वैभीतकस्य तैलस्य धात्रीरसचतुर्गणम् । कुर्यादादित्यपाकं वा यावच्छुष्को भवेद्रसः ॥ लौहपात्रे ततः पूतं संशुद्धमुपयोजयेत् । पाने नस्तःक्रियायाञ्च शिरोऽभ्यङ्गे तथैव च ॥ एतच्चन्युष्यमायुष्यं शिरसः सर्वरोगनुत् । महानीलमिति ख्यातं पलितनमनुत्तमम् ॥ १३०॥
महानीलतैलम्। पिप्पल्यादीनां पृथक पञ्च पलानि। पिष्टरेतः कल्कवभोतकस्य तलस्याढकं षोडशशरावं तच्चतुगुणं धात्रीरसं लौहपात्र पचेत् । अथवा यावत् तद्रसः शुष्कः स्थात् तावदादित्यकिरणे लोहपात्र स्थापयिखा आदित्यपाकं कुर्यात्, ततः पूतं वस्त्रपूतं तैलं संशुद्धं केवलमुपयोजयेत् पानादिषु। अत्राञ्जनं रसाञ्जनं कृष्णागुरु च नीलोत्पलश्च। आम्रास्थिमध्यं कृष्णवर्णः कईमः पङ्कः। नीली नीलिनीपत्रं भल्लातकस्यास्थीनि काशीशं हिराकस् इति लोके। मदयन्तिका मल्लिका। असनः पीतशालः। कृष्णः पिण्डीतो मदनफलं कृष्णश्व चित्रकः । पुष्कर पापुष्पं आम्रजम्बूफलानि चामानि। इति महानीलतैलम् ॥ १३०॥ सरीपक कृष्णा झिष्टी। सोमराजी । शस्त्रं कृष्णं लोहम् । कृष्णपिण्डितचिलकाविति कृष्णमदनकृष्णचित्रको। आदित्यपाकमिति आदित्यरश्मिसम्बन्धादेव पक्वम् । अव भागैरिति बहुवचनात् पृथाभागे. सिद्धेऽपि पृथगितिपदं सिद्धस्यापि विफलापृथगभागस्य द्योतनार्थ करक. भूयस्वात् ॥ १२६-१३०॥ • पुष्पाग्यर्जु नकाश्मोरित्यन्यः पाठः ।
For Private and Personal Use Only