________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६श अध्यायः] चिकित्सितस्थानम्।
लाक्षाकालारसालोह-वराभृङ्गरजोरसात् । * प्रस्थस्तु कुड़वस्तैलात् यष्टाह्वप(फ)लकल्कितः॥ सिद्धः शिलासमे पात्र मेषशृङ्गादिषु स्थितः। .. नस्यं स्याद भिषजा सम्यग् योजितं पलितापहम् ॥१२७॥ भिषजा क्षीरपिष्टौ वा दुग्धिकाकरवीरको। उत्पाव्य पलिते देयौ तावुभौ पलितापही ॥ १२ ॥ क्षीरात् समार्कवरसात् द्विप्रस्थं मधुकोत्पले । विपचेत् तैलकुड़वं तन्नस्यं पलितापहम् ॥ १२६ ॥ आदित्यवन्धमूलानि कृष्णसरोयकस्य च । सुरसस्य च पत्राणि पत्रं कृष्णशणस्य च ॥ मार्कवः काकमाची च मधुकं देवदारु च ।
पृथग दशपलांशानि पिप्पली त्रिफलाञ्जनम् ॥ नस्यं भवति। लाक्षत्यादि। लाक्षा च कालारसा शिहकरसः लोहमगुरु वरा त्रिफला भृाराजरसः। एषां प्रत्येकं रसप्रस्थः तैलात् कुड़वः यष्टाहस्य प(फ)लं पादिकः कल्कः। पक्त्वा सिद्धस्तत्तेलकुड़वः शिलासमे दृढ़े पाचे मेषमहिषशृङ्गादिषु वा स्थितः। तत् तलं खालित्यादिषु नस्यं स्यात् ॥१२॥
गङ्गाधरः-भिषजेत्यादि। अथवा दुग्धिकाकरवीरौ क्षीरपिठो पलितं शुक्लकेशं समुत्पाटय तस्मिन् पलिते प्रलेपो देयौ ॥ १२८॥
गङ्गाधरः-क्षीरादित्यादि। क्षीरस्य प्रस्थं मार्कवस्य भाराजस्व रसप्रस्थमिति द्विपस्थं यष्टीमधुनीलोत्पलश्च द्वे कल्के पादिके तैलकुड़वं विपकेन्द्र तत् तैलं पलितापहं नस्यम् ॥ १२९ ॥
गडाधरः-आदित्येत्यादि। आदित्यवन्ध सूर्यभक्ता तस्या मूळ कृष्णसैरीयकस्य नीलझिण्ठीमूलं सुरसस्य कृष्णस्यैव कृष्णतुलसीपत्राणि कृष्णपुष्पशणस्य च पत्रम्। मार्कवः भृङ्गराजः। पृथगेषां दश दश पलानि। शिलासमे पात्रे इति भइममये पात्रे। आदित्यवल्ल्या मूलानीति आदित्यवशी सूर्वमा
* क्षीरात सहचरात् भृङ्गराजाच्च सुरसात् रसात् इति पालन्तरम् ।
For Private and Personal Use Only