________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः चिकित्सितस्थानम्।
२३४३ विद्यासमाप्तौ भिषजस्तृतीया जातिरुच्यते। अश्रुते वैद्यशब्दो न, न वैद्यः पूर्वजन्मतः॥ विद्यासमाप्तो ब्राह्मा वा सत्त्वमार्ण्यमथापि वा। ध्रुवमाविशति ज्ञानात् तस्माद् वैद्यस्त्रिजः स्मृतः॥१६॥ नाभिध्यायेन्न चाक्रोशेदहितं न समाचरेत् । प्राणाचाय्य बुधः कश्चिदिच्छन्नायुरनित्वरम् ७ ॥ २०॥ गङ्गाधरः-ननु तर्हि कथं द्विजातित्वं न कथ त्रिजातित्वं किं तावदिति आह-विदेवत्यादि। साङ्गानां वेदानामध्ययनेन यज्ज्ञानं सा विदया। सा च द्विधा परा चापरा च। उक्तं हि मण्डुकोपनिषदि "द्वे विदा वेदितव्ये परा चापरा च। तत्रापराऋगवेदः सामवेदो यजुर्वेदोऽथर्ववेदः शिक्षा कल्पोव्याकरणं निरुक्तं छन्दो ज्योतिषम् इति । अथ परा यया तदक्षरमधिगम्यते यत्तददृश्यमगोत्रमवर्ण्यमित्यादि। तद्विविधाविदवाया अध्ययनेन समाप्तौ सत्यां भिषजस्तृतीया जातिः वेदप्रत्वे, न पुनर्जन्मत उच्यते। तेन अश्रुतेऽनधीतसावेद ब्राह्मणादौ द्विजातिषटके, उपनयनेनैव द्विजातिवमात्रे न तु वैदापर्यायभिषक्प्राणाचार्यादिशब्दो वैदाशब्दो वर्तते न वा सावित्रयां पूर्वजन्मतो वैदाः स्यात्। अत एव ब्राह्मणानां षडू विधानामुपनयनसंस्कारवेदारम्भ इव वैदप्रत्वे तेषां वेदाध्ययनसमाप्तिश्चेत् तदा तेषां ब्राह्मणवादिवद्वेदात्वं भवतीति त्रिजन्मत्वम् ।
ननु कस्माद विदग्रासमाप्तौ तृतीया जातिः स्यादित्यत आह-विदयासमाप्तावित्यादि। ब्राह्मा सत्त्वं मनः अथवार्ष सत्त्वं मनः शानात् तत्त्वज्ञानात् समाप्तविदा पुरुषं ध्रुवं निश्चितमाविशति यस्मात्, तस्माद द्विजो ब्राह्मणादिदाखरूपेण जन्मान्तरात् वैदास्त्रिजो द्विजेषु श्रेष्ठः स्मृतः॥१९॥
गङ्गाधरः-अत एव बधः कश्चिदनिखरम अगवरमायुरिच्छन् प्राणाचार्य चक्रपाणिः- वैद्यशब्दद्विजशब्दयोः प्रवृत्तिनिमित्तमाह-विदेवत्यादि। तेन विद्यायोगाद् वैद्यत्वं तथा विद्यासमाप्तिलक्षणजन्मना विजत्वं भवतीत्युक्तं भवति। ब्राह्म वा आर्ष वा इति विकल्पो वैद्यविशेषाभिप्रायाद भवति, तोर्यो नैष्टिकचिकित्सार्थः, तस्य ब्राह्मम्, इतरस्य तु लोकानुग्राहिण आर्षमिति व्यवस्था ॥ १९॥२०॥
* इतःपरं चिकित्सितशरीरं यो न निष्क्रीणाति दुर्मतिः। स यत् करोति सुकृतं तत् फलं भिषगश्नुते ॥ इत्यधिकः पाठः क्वचिद दृश्यते।
For Private and Personal Use Only