________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रिसायनपाद ४
चरक-संहिता। चिकित्सितस्तु संश्रुत्य यो वासंश्रुत्य मानवः । नोपाकरोति वैद्याय नास्ति तस्येह निष्कृतिः॥ भिषगप्यातुरान् सर्वान् स्वसुतानिव यत्नवान् ।
आबाधेभ्यो हि संरक्षेदिच्छन्नायु--रनुत्तमम् ॥२१॥ धर्मार्थञ्चार्थकामार्थमायुव्वेदो महर्षिभिः । प्रकाशितो धर्मपरैरिच्छद्भिः स्थानमक्षयम् ॥ नार्थार्थ नापि कामार्थमथ भूतदयां प्रति ।
वर्तते यश्चिकित्सायां स सर्वमतिवर्त्तते ॥ २२ ॥ वैद नाभिध्यायेत् तद्धनादिविषयस्पृहां न कुर्य्यात्, न चाक्रोशेत्, नाप्यहितं समाचरेत् ॥२०॥ - गङ्गाधरः-वैदानां पूज्यवमुक्ता येन चिकित्सितो यो भवति तस्य तं पैदा मति यथा कर्त्तव्यं तदाह-चिकित्सित इत्यादि। यो मानवो येन वैदेवन विचित्सितस्तस्योपकारविषयं संश्रुत्यासंश्रुत्य वा वैदवाय नोपाकरोति उपकारं न करोति इह जगति उभयस्मिन् लोके तस्य निष्कृति रित। चिकित्सितपुरुषस्य वैदा प्रत्याचरणमुक्त्वा वैदास्याप्यातुरं प्रत्याचारमाह-भिषगपि इत्यादि । अपिशन्दोऽत्र पूर्वश्लोकार्थप्रतिरूपे। चिकित्सितः पुमान् यथा वैदवाय उपाकुर्थात् तथा भिषगपि यत्नवान् सन् उत्तममायुः स्वस्येच्छन् सर्वानासुरान् बाबाधेभ्यो व्याधिपीडाभ्यः स्वसुतानिव संरक्षेत् ॥२१॥ . गङ्गाधरः-आयुर्वेदप्रकाशफलमाह-धाथमित्यादि। धर्मार्थ धर्मनिमित्तमर्थकामार्थश्च अर्थार्थ कामार्थश्च अक्षयं स्थानं ब्रह्मलोकमिच्छद्भिर्धर्मपरैम हर्षिभिरायुर्वेदः प्रकाशितः, न महर्षिभिरर्थार्थ नापि कामार्थमायुवेदः प्रकाशितः किन्तु धर्माथमर्थकामार्थं च प्रकाशितः । ननु कथं धर्मः स्यादित्यत आहाथेत्यादि। चिकित्सायां यो भूतदयां प्रति वर्तते भूतेषु दयां कृतार्थकामो हिला चिकित्साकरणे यत् फलं वर्तते स धर्मरूपः सर्वं फलमतिवर्चते अतिक्रामति ॥ २२॥
चक्रपाणिः-संश्रुत्येति प्रतिज्ञाय ॥ २॥२२॥ . * धर्ममिति पाठान्तरम्।
For Private and Personal Use Only