________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ रसायनपाद
२३४२
चरक-संहिता। प्रातश्च सवने सोमं शक्रोऽश्विभ्यां सहाश्नुते। सौत्रामण्याञ्च भगवानश्विभ्यां सह मोदते ॥ इन्द्राग्नी चाश्विनौ चैव स्तूयन्ते प्रायशो द्विजैः । स्तूयन्ते वेदवाक्येषु न तथान्या हि देवताः॥ अमरैरजरैस्तावद्विबुधैः साधिपै, वैः। पूज्यते प्रयतैरेवमश्विनौ भिषजाविति ॥ १६ ॥ मृत्युव्याधिजरावश्यैर्दुःखप्रायैः सुखार्थिभिः। किं पुनर्भिषजो मत्तौः पूज्याः स्युर्नातिशक्तितः ॥१७॥ शीलवान् मतिमान् युक्तस्त्रिजातिः शास्त्रपारगः।
प्राणिभिरुवत् पूज्यः प्राणाचार्यः स हि स्मृतः ॥ १८ ॥ अश्विनीकुमारद्वयाय द्विजातिभिः ग्रहादयः कल्प्यन्ते। स च शक्रः प्रातःकाले सवने अश्विभ्यां सह सोममश्रुते। सौत्रामण्याश्च यज्ञ भगवान् जिष्णुरश्विभ्यां सह मोदते। द्विजैः प्रायशो वेदवाक्येषु इन्द्रानी च अश्विनो चैते एव यथा स्तूयन्ते तथा नान्या हि देवताः स्तूयन्ते। अमरादिभिः एवं पूज्यते एवाश्विनौ देवभिषजौ ॥१६॥
गङ्गाधरः-मानां वैद्यपूजनमाह-मृत्युव्याधीत्यादि। अमरैरजरैर्यवं वैद्यः पूज्यते, तत्र मत्त्यैमरणशीलैः मृत्युव्याधिजराभिर्वश्यैः दुःखप्रायैः सुप्तरां मुखाथिभिर्नातिशक्तित: न शक्तिमतिक्रम्य यथाशक्तितः भिषजो पुनः किं न पूज्याः स्युस्तत्र किं ब्रम इति भावः ॥१७॥
गङ्गाधरः-ननु कस्माद वैदाः पूज्य उच्यते, इत्यत आह-शीलवानित्यादि। युक्तः युक्तिमान् त्रिजातिः ब्राह्मणमूर्धाभिषिक्ताम्बष्ठान्यतमो ब्राह्मणः क्षत्रियमाहिष्यान्यतरः क्षत्रियो वैश्यो वेति षण्णामन्यतमः संस्कारात द्विजन्मवान । स पुनः शास्त्रपारगः वेदवेदाङ्गपारं गतः त्रिजातिर्वक्ष्यते। एवम्भतो वैदयो यः स हि प्राणार्थं प्राणवद्भिः गुरुवत् आचार्यवत् पूज्यस्तस्मात् प्राणाचार्य इति स्मृतः॥१८॥ शस्त्राणि च यज्ञे कल्प्यन्त एव । धूम्राश्च पशव इति धूमवर्णपशवः, एवंवर्णाश्च पशवः श्रेष्ठा भवन्ति । सवन इति यज्ञस्थाने । सौलामणी यज्ञविशेषः । अतिशक्तित इति निजशक्तेरप्यतिरेकेण ॥१५-१८॥
For Private and Personal Use Only