SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म अध्यायः] चिकित्सितस्थानम् । २३४१ प्राणाचार्य बुधस्तस्माद् धीमन्तं वेदपारगम्। अश्विनाविव देवेन्द्रः पूजयेदतिशक्तितः ॥ १५ ॥ अश्विनौ देवभिषजौ यज्ञवाहाविति स्मृतौ। यज्ञस्य , हि शिरश्छिन्नं पुनस्ताभ्यां समाहितम् ॥ प्रशीर्णा दशनाः पूष्णो नेत्रे नष्टे भगस्य च । वज्रिणश्च भुजस्तम्भस्ताभ्यामेव चिकित्सितः॥ चिकित्सितस्तु शीतांशु हीतो राजयक्ष्मणा । सोमान्निपतितश्चन्द्रः कृतस्ताभ्यां पुनः सुखी ॥ भार्गवश्च्यवनः कामी वृद्धः सन् विकुतिं गतः। वीतवर्णस्वरोपेतः कृतस्ताभ्यां पुनयुवा ॥ एतैश्वान्यैश्च बहुभिः कर्मभिभिषगुत्तमौ । बभूवतुर्भृशं पूज्याविन्द्रादीनां महात्मनाम् ॥ ग्रहाः स्तोत्राणि मन्त्राणि तथा नाना हवींषि च। धूमाश्च पशवस्ताभ्यां प्रकल्प्यन्ते द्विजातिभिः ॥ संयोगवृष्ययोगरोगनौषधं वैद्यसंश्रयं न खन्यत्र वाच्यं, तदा तस्मादेव सुतरां बुधः पण्डितो धीमन्तं वेदपारगमायुर्वेदपारगं प्राणाचार्य वैद शक्तितः पूजयेत् । अश्विनाविव देवेन्द्रः। देवेन्द्रो यथाश्विनौ स्वइँदो पूजितवान् तथेत्यर्थः । इति ॥१५॥ - गङ्गाधरः-ननु कथं कस्माच्च देवेन्द्रेणाश्विनी पूजितावित्यत आहअश्विनावित्यादि। यज्ञावाहाविति वितृणोति-यशस्य हीत्यादि। यशस्य दक्षप्रजापतेः क्रतोः। सोमात् सौम्यभावात् । ग्रहा ग्रहणार्थ विधयः । ताभ्याम् प्राणाचार्यमित्यत्र प्राणिव-मिति वा पाठः, तत्र प्राणिनां वर्यः श्रेष्ठः प्राणिवर्य्यः । यज्ञं वहत इति यंववाहौ, तयज्ञवाहत्वमेव दर्शयति-दक्षस्य हीत्यादि। पूष्णः सूर्य्यस्य । भगोऽपि सूर्यभेदः । सोमाभिपतित इति सोमाभिपातनरोगेण पीड़ित इत्यर्थः, अतिपचित इति वा पाठः, तवाप्यतिपचनेन सोमपानातियोगं दर्शयति । ग्रहाः सोमपानपाखाणि । स्तोत्राणि स्तवाः स्तावकवाचः । शमाणीति कृत्वा केचित्, शस्यतेऽनेनेति सामगव्यतिरिक्त स्तोत्रमाहुः, शस्त्राणि अस्त्राण्येव, वयुक्तानि, ...* यज्ञस्य इत्यत्र दक्षस्य तथा सोमान्निपतित इत्यत सोमाभिपतितः इति चक्रसम्मतः पाठः ।, २९४ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy