SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरक-संहिता। [ रसायनपाद ४ यथास्थूलमनिर्वाह्य दोषान् शारीरमानसान् ।... रसायनगुणैर्जन्तुयुज्यते न कदाचन ॥ १२॥ . योगा ह्यायुःप्रकर्षार्था जरारोगनिवर्हणाः । मनःशरीरशुद्धानां सिध्यन्ति प्रयतात्मनाम् ॥ १३ ॥. तदेतन्न भवेद वाच्यं सर्वमेव हतात्मसु । अरुजेभ्योऽद्विजातिभ्यः शुश्रूषा येषु नास्ति च ॥१४॥ ये रसायनसंयोगा वृष्ययोगाश्च ये मताः। यच्चौषधं विकाराणां सब्वं तद वैद्यसंश्रयम् ॥ गङ्गाधरः-ननु के रसायनगुणान् सर्वानाप्नुवन्तीत्यत आह-यथेत्यादि। शारीरमानसान दोषान अनिर्वाह्य शारीरमानसदोषनिहिं न कृता. जन्तुः यथास्थूलं स्थूलान् गुणानतिक्रम्य सूक्ष्म रसायनगुणैर्न कदाचन युज्यते स्थूलगुणांस्तु लभते। स्थूलगुणास्तु असम्यगरूपेणायुर्हितखानल्पजीवितारोग्यादयः ॥१२॥ .. गङ्गाधरः-ननु तर्हि केषां रसायनादीनि सिध्यन्तीत्यत आह-योगा इत्यादि। मनःशरीराभ्यां दोषतः शुद्धानाम् ॥१३॥ 'गङ्गाधरः-अथ रसायनयोगानां गुह्यखमाह-तदेतदित्यादि। तदेतत् सर्वमेव रसायनं हतात्मसु साङ्गवेदवचनेष्वनिष्ठादिभिर्हतमनोबुद्धिस्वभावेषु न वाच्यं भवेत्। रसायनफलनिष्ठाभावात् अरुजेभ्योऽद्विजातिभ्यः शूद्रेभ्यश्च न वाच्यं भवेत् । येषु रसायनगुणशुश्रुषा श्रवणेच्छा नास्ति तेषु च वाच्यं न भवेत् । तेषां हि मायो न सत्यतया रसायनादिचमत्कारवत्त्वेषु प्रत्ययोऽस्ति स्वयं विज्ञाभिमानिखात् ॥ १४॥ . गङ्गाधरः-ननु के पुनरेतत् सव्वौ षधविदः स्युरित्यत आह-ये इत्यादि। वैद्यसंश्रयमिति वैद्या हि धर्मार्थकामाभिलाषिण औषधगुणेषु सत्यतया प्रत्ययवन्तस्तत्फलन हि स्वगुणविख्यातियशोऽर्थलाभादयः। यदि सर्च रसायन चक्रपाणि:-शुद्धैयव प्रयतात्मतायां लब्ध्रायां पुनस्तदभिधानमितरमानसगुणेषु प्रयतात्मताया अभ्यहि ततोपदर्शनार्थम्। अरजोभ्योऽद्विजातिभ्यः शुश्रुषा येषु पुरुषेषु नास्ति, तेषु चौतम वाच्यमिति योजना ॥ १२-१४॥ चक्रपाणिः-सम्प्रति रसायनादिसिद्धिर्धेद्याधीना, तेन वैद्यस्तुतिमारभते- य इत्यादि। For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy