________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः
चिकित्सितस्थानम्। २३३४ सत्यवादिनमक्रोधं निवृत्तं मद्यमैथुनात् । अहिंसकमनायासं प्रशान्तं प्रियवादिनम् ॥ जपशौचपरं धीरं दाननित्यं तपखिनम् । देवगोब्राह्मणाचार्य-गुरुवृद्धार्चने रतम् ॥ आनृशंस्यपरं नित्यं नित्यं कारुण्यवेदिनम् । समजागरणस्वप्न-नित्यं क्षीरघृताशिनम् ॥ देशकालप्रमाणज्ञ युक्तिज्ञमनहङ्क तम् । शस्ताचारमसङ्कीर्णमध्यात्मप्रबलेन्द्रियम् ॥ उपासितारं वृद्धानामास्तिकानां जितात्मनाम् । धर्मशास्त्रपरं विद्यान्नरं नित्यरसायनम् ॥ गुणैरेतैः समुदितैः प्रयुक्त यो रसायनम् । रसायनगुणान् सर्वान् यथोक्तान् स समश्नुते ॥ ११ ॥
इत्याचाररसायनम्। ननु कस्य पुना रसायनमेकान्तेन सिध्यतीत्यत आह-सत्यवादिनमित्यादि। मद्यमैथुनानिवृत्तं नित्यम् आनृशंस्यपरम् अखलत्वे तत्परं नृशंसा तु खलता। नित्यं कारुण्यवेदिनं दयावेत्तारम् । नातिजागरणनातिस्वमौ नित्यौ यस्य तं समजागरणस्वमनित्यम् । असङ्कीर्ण नानाधर्ममेलकेन सङ्कीर्णभावरहितम् । अध्यात्मे प्रबलानीन्द्रियाणि यस्य तम् अध्यात्मप्रबलेन्द्रियम्। वृद्धादीनामुपासितारम् । नित्यरसायनमिति सव्वेदाचरितरसायनमित्यथः । रसायनाधिकारिणमाह-एतैः समुदितैः गुणैयौं रसायनं प्रयुक्ते स सान रसायनगुणान् यथोक्तान् समश्नुते॥११॥
इत्याचाररसायनम् । सौर्यमारुतिकः। सामान्येनरसायनविषयपुरुषगुणान् उक्तवा विशेषेण गुणानाह-सत्यवादिनमित्यादि । करुणया सवानि पश्यतीति करुणवेदी। असङ्कीर्णः कुलजः। नित्ययोगेन रसायनप्रयोगो यस्य स नित्यरसायनः ॥९-११॥
करुणवेदिनम् इति चक्रः ।
For Private and Personal Use Only