________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रिसायनपाद
२३३८
चरक-संहिता। रसायनपान । समर्थानामरोगाणां धीमतां नियतात्मनाम्। कुटीप्रवेशः क्षमिणां ® परिच्छदवतां हितः॥ अतोऽन्यथा तु ये तेषां सौर्यमारुतिको विधिः । ताभ्यां श्रेष्ठतरः पूवों विधिः स तु सुदुष्करः॥६॥ रसायनविधिभ्रंशाजयेरन् व्याधयो यदि। यथास्वमौषधं तेषां कायं मुक्त्वा रसायनम् ॥ १०॥ गङ्गाधरः-ननु चतुष्पादेषूक्तानां रसायनानां द्विविधः प्रयोगो भवता व्याख्यातः कुटीमावेशिको वातातपिकश्च ; सर्वे तु पुरुषाः किं द्विविधमेव प्रयोमं कुय्युरथान्यथेत्यत आह–समर्थानामित्यादि। समर्थानां शक्तिमतां नियतात्मनां कामक्रोधादिविरहेण निश्चित्य यमशीलतया स्थिरमनसां क्षमिणां क्षमाशीलानां परिच्छदवतां धनजनादिभिः सम्पन्नानां कुटीप्रवेशो हितः। अतोऽन्यथा तु सामर्थ्यरहितानां रोगिणामबुद्धिमतां कामादिभिरस्थिरचित्तानाम् अक्षमिणां धनजनादिसम्पदहितानाञ्च सौर्यमारुतिको वातातपिको विधिर्हितः। नन्वेवं चेत् कस्मात् कुटीप्रवेशः कार्यः समर्थादिभिरपि सौर्यमारुतिको विधिः क्रियतेत्यत आह- ताभ्यामित्यादि। श्रेष्ठतर इति सम्यक्फलनिष्पादकखात् पूर्वः कुटीप्रवेशो वै श्रेष्ठतरः । असम्यक्फलनिष्पादकलात् तु परो वातातपिको विधिः श्रेष्ठो रोगहरभेषजेभ्यः। नन्वेवं चेत् समर्थासमर्थाः सर्वं कुटीप्रवेशं कस्मान कुय्यु रित्यत आह–स तु सुदुप्कर इति । स तु कुटीप्रवेशो विधिः सुदुष्करः । बहुक्लेशजनको यस्मात् तस्मात् समर्थादीनां हितो नासमर्थादीनामिति बोध्यम् ॥९॥
गङ्गाधरः-ननु कुटीप्रवेशे कृते यदि दैवाद विधितो भ्रश्यते रोगाश्च तेन यदि भवन्ति तदा किं कार्यमित्यत आह-रसायनविधिभ्रशादित्यादि। व्याधय इति ये व्याधयो भवन्ति तेषां व्याधीनामौषधं कार्यमित्यर्थः ॥१०॥
चक्रपाणिः-कुटीमावेशिकरसायनविषयान् वातातपिकरसायनविषयांश्च पुरुषानाह-समर्थानामित्यादि। क्षणिनामिति व्यापारकरणं प्रति स्वतन्त्राणाम् । सूर्यमारुतसेवयापि क्रियत इति
• भणिनाम् इति चक्रः।
For Private and Personal Use Only