________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३६४
चरक-संहिता। [त्रिमौचिकित्सितम शङ्खविद्रु मवैदूर्य-लोहताम्रप्तवास्थिभिः । स्रोतोजश्वेतमरिचैर्तिः स निरोगनुत् ॥ शाणार्द्ध मरिचाद द्वौ च पिप्पल्यर्णवफेनयोः । शाणाई सन्धवाच्छाण कृत्वा सौवीरकाञ्जनात् ॥ विष्टं सुसूक्ष्म चित्रायां चूर्णाञ्जनमिदं शुभम् । काचकण्डूकफातानां मनानाञ्च विशोधनम् ॥ वस्तमूत्रे त्राहं स्थाप्यं विड़चूर्ण सुभावितम् । चूर्णाञ्जनं हि तैमियं-क्रिमिपिल्लमलापहम् ॥ सौवीरमञ्जनं तुल्यं ताप्यो धातुर्मनःशिला। चक्षुष्या मधुकं लोह-मणयः पौष्पमञ्जनम् ॥ सैन्धवं शौकरी दंष्ट्रा कण्टकं चाञ्जनं शुभम् । तिमिरादिषु चूर्ण वा वत्तियमनुत्तमा ॥
जर्जरीकृत्य कुट्टयिला प्रत्येकमर्द्ध पलांशिकान् हला शुक्लमरिचात् शोभाञ्जनवीजात् कषैश्च हला नवात् नूतनाजातिपुष्पात् पलं हृला चूर्ण कृता वर्तिः काऱ्यां त्रिदोषनी ॥ १२२॥
गङ्गाधरा-शङ्ख त्यादि। शङ्खः प्रसिद्धः शङ्खनाभिः। लोहरजस्ताम्ररजश्चातिसूक्ष्म प्लवो भेकस्तस्यास्थि । स्रोतोजो रसाञ्जनं श्वेतमरिचं शोभाञ्जनवीजम् । शाणाद्धे मित्यादि। मरिचाच्छाणार्द्ध पिप्पलीसमुद्रफेनयोद्वौ शाणी मिलितयोः प्रत्येकमेकशाणः, सैन्धवाच्छाणार्द्ध सौवीराञ्जनाच्छाणं हला चित्रायां नक्षत्रे सुसूक्ष्मं सर्व पिष्टमिदं चूर्णाञ्जनं शुभम्। चूर्णाञ्जनम्। बस्तमूत्रइत्यादि। विड्लवणचूर्ण छागमूत्रे अहं स्थाप्यं सुभावितं तच्चूर्णाञ्जन तैमिाघपहम् । चूर्णाञ्जनम्। सौवीरमित्यादि। सौवीरं सुवीरा यमुना तत्र जातमञ्जनं ताप्यं स्वर्णमाक्षिकं धातुः मधुकं लोहमणयः अयस्कान्तमणय पौष्पमञ्जनं पुष्पकाशीशम्, एते सन्च चक्षष्या। सैन्धवमित्यादि । शोभाञ्जनवीजं पुष्पं पुष्पाञ्जनं प्लव पक्षिविशेषः द्वौ च पिप्पल्यर्णवफेनौ धाणावित्यो । शिक्षायाम्
For Private and Personal Use Only