________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३३६२
चरक संहिता |
पैत्तिके चन्दनानन्ता - मञ्जिष्ठाभिर्विङ्गालकः ।
I
काः पद्मकष्टप्राह-मांसीकालीयकैस्तथा ॥ रोचनामुस्तलवण - गैरिकैश्च रसक्रिया । कफे कार्य्यस्तथा चौद्र प्रियङ्गः समनःशिला ॥ सन्निपाते तु सव्वैः स्याद् वहिरणोः प्रलेपनम् । प्रक्षाल्य स्पृशता काय्यं सम्यङ नेत्राञ्जनं त्राहात् ॥ १२० ॥ प्रयोतनं मारुतजे क्वाथो बिल्वादिभिर्हितम् | कोष्णः सैरण्डवृहती- तर्कारीमधुशिभिः ॥ द्राक्षादावसमञ्जिष्ठ- लाचाद्विमधुकोत्पलैः । काथः सशर्करः शीतः पूरण रक्तपित्तनुत् ॥
Acharya Shri Kailassagarsuri Gyanmandir
[विमम्मय चिकित्सितम्
गङ्गाधरः- अथ पैत्ते नेत्ररोग आह- पैत्तिके इत्यादि । जलन पिष्टाभिवन्दनादिभिर्विड़ालकः पैत्तिकेऽक्षिगेगे कार्य्यः । तथा पद्मकादिभिर्विड़ालकः कार्य्यः । तथा रोचनादिभिस्तु रसक्रिया काय । द्रवेण घृष्ट्वा पक्त्वा घनीकृता रसक्रियोच्यते । अथ कफजेऽक्षिरोगे वाह - कफ इत्यादि । प्रियङ्गमनःशिले द्वे समे मधुना पिष्ट्वा विडालकः काय्यः । सन्निपाते तु नेत्ररोगे. सर्व्वतादिप्रत्येकदोषोक्तैर्मिलितैरक्ष्णोवहिः प्रलेपनं स्यात् । प्रक्षाल्येत्यादि । एवं वहिरालेपनं दत्त्वा ग्रहात् परं प्रक्षाल्य चक्षुषी सम्यक् स्पृशता नेत्राञ्जनं कार्य्यम् ॥ १२० ॥
गङ्गाधरः- तदञ्जनमाह – आश्च्योतनमित्यादि । मारुतजे सैरण्डादिभि - विल्वादिभिः पञ्चमूलैः कृतः काथः कोष्ण आश्च्योतनं चक्षुः पूरणं हितम् । तकारी जयन्ती । द्राक्षेत्यादि । द्राक्षादिभिः कृतः काथः सशकरः शीतश्चक्षुषोः
For Private and Personal Use Only
विडालकः । सन्निपाते तु सवैरिति प्रत्येकमुक्तविडालकद्रव्यैः प्रलेपनं कार्यमित्यर्थः । नेवाअनं श्रादित्यत प्रायोऽक्षिरोगाणां त्राहेण पाकात् वाहादित्युक्तम् । पाकलक्षणं तन्त्रान्तरेप्रशस्तवता चाक्ष्णोः संरम्भाश्रुप्रशान्तता । मन्दवेदनता कण्डूः पक्काक्षिगदलक्षणम् ॥ ११९ ॥१२०॥