________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६श अध्यायः
३३६१
चिकित्सितस्थानम् । तत् तैलं भिषजा योज्यं विधिना कर्णपूरणे। रसाञ्जनस्य शुण्ठयाश्च कल्काभ्यां कर्णशूलनुत् ॥ ११७॥ मुखकर्णाक्षिरोगेषु यथोक्तं पीनसे विधिम् । कुर्याद भिषक् समीक्ष्यादौ दोषकालबलाबलम् ॥ ११८ ॥
उत्पन्नमात्रे तरुण नेत्ररोगे विडालकः । कार्यो दाहोपदेहाश्रु-शोफरागनिवारणः॥ नागरं सैन्धवं सर्पिर्मण्डेन च रसक्रिया। निघृष्टं वातजे तद्वन्मधुसैन्धवगैरिकम् ॥ तथा सावरकं लोध्र घृतभृष्टं विडालकम् ।
कार्या हरीतको तद्वत् घृतभृष्टा रुजापहा ।। ११६ ॥ तस्मिन् क्षारजले गन्धतैलं गान्धिः कृतं पुष्पवासितं तैलं रसाञ्जनशुण्ठयोः कल्काभ्यां विपाचयेत् । गन्धतैलम् ॥११७॥
गङ्गाधरः-मुग्वेत्यादि। पीनसे यथोक्तं यस्य दोषस्य यो विधिरुक्तस्तं विधिं मुखादिरोगेषु दोषकालबलाबलमादौ समीक्ष्य भिषक् कुर्यात् । इति कर्णरोगचिकित्सा ॥११८॥
गङ्गाधरः-इति कर्णरोगचिकित्सितमुक्त्वा क्रमिकलादक्षिरोगचिकित्सितमाह-उत्पन्नमात्र इत्यादि। विडालकः “शालाक्याङ्गोऽक्ष्णोहिलेपो विडालकसंशः”। नागरमित्यादि। नागरचूप यावत् तावच्च सैन्धवं यावता सपिमेण्डेन द्रवीभूय निघृष्यते तावता निघृष्ट रसक्रिया वातजे नेत्ररोगे विडालकं दद्यादेषं मधु च सैन्धवञ्च गैरिकञ्च निघृष्टं रसक्रिया नेत्रे विड़ालकं दद्यात् । तथा सावरकं पट्टिकाख्यं श्वेतलोध्र घृतभृष्टं विडालकं दद्यात् । तथा हरीतकी घृते भृष्टा कार्या विडालकं दद्यात् ॥११९ ॥
चक्रपाणिः-वराटकानित्यत तद्भस्मेति वराटकदाहभस्म गालयेत्। गन्धतैलमिति सुगन्धद्रव्यकल्लयुक्तं तैलम्, किंवा गन्धद्व्याधिवासितं तैलम् ॥११७ ॥ ११८॥ इति कर्णरोगचिकित्सा ।
चक्रपाणिः-उत्पन्नमात्रे इत्यादिना नेवरोगचिकित्सितमाह। विडालक: नेखबहिलेपः शालाक्ये उच्यते। निघृष्टमित्यादौ तद्वदिति रसक्रियावदित्यर्थः। हरीतत्वात् हरीतकीघृतयुको
For Private and Personal Use Only