________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३५८
चरक-संहिता। [त्रिमर्मीयचिकित्सितम् सीप्युपरिभक्तानि स्वरभेदेऽनिलात्मके। चतुष्प्रयोगैस्तैस्तैश्च बलारानामृताह्वयैः॥ बर्हितित्तिरिदक्षाणां पञ्चमूलीशृतान् रसान् । मायरक्षीरसपिर्वा पिबत् षणमेव वा। पैत्तिके तु विरेकः स्यात् पयश्च मधुरैः शृतम् । सर्पिगुडो घृतं तिक्तं जीवनोयं वृषस्य वा ॥ कफजे खरभेदे तु तीक्ष्णं मूर्द्धविरेचनम् । विरेको वमनं धूमो यवान्नकटुसेवनम् ॥ भार्गीवचाभयाव्योष-क्षारमाक्षिकचित्रकान् । लिह्यात् पिप्पलीपथ्ये वा तीक्ष्णं मद्य पिबच्च सः ॥ रक्तजे खरभेदे तु संस्कृता जागला रसाः। द्राक्षाविदारीक्षुरसाः सक्षौद्रघृतशर्कराः॥ गङ्गाधरः-मुखरोगविशेषखात् स्वरभेदरोगचिकितसितमाह-सीपीत्यादि। अनिलात्मके स्वरभेदे उपरिभक्तानि सी षि तथा बलारास्नामृताहयस्तैस्तैः काथचूर्णलेहकवडग्रहश्चतुःप्रयोग रुपाचरेदिति। बहीत्यादि। पञ्चमूलीकाथभृतान् बहिप्रभृतीनां मांसरसान् पिबेत् । मायूरसर्पिः क्षीरसर्पिवा पिबेदथवा ऋषणं पिबेत् । पैत्तिक इत्यादि। मधुरैर्मधुरवर्गः। सर्पिगुड़ इत्यादि। सर्पिगुः क्षतरोगचिकित्सितोक्तः। तिक्तं घृतं जीवनीयं घृतं वृषस्य घृतम् । कफज इत्यादि । यवान्नकटुसेवनं यवान्नसेवनं कद्रव्यसेवनश्च । भार्गीत्यादि। भाादिचित्रकान्तं चूर्णीकृत्य मधुना लिह्यात् । अथवा पिप्पलीपथ्ये चूर्णीकृत्य पिबेत्। तीक्ष्णं वा मद्य पिबेत् । रक्तज इत्यादि। संस्कृताः घृते सम्भृष्टा जाङ्गला रसाः एवं द्राक्षादिखरसाः प्रत्येकं क्षौद्रघृतशर्करा
चक्रपाणिः-सी युपरिभक्तानीत्यादिना स्वरभेदचिकित्सामाह । वातादिस्वरभेदलक्षणं यद्यपीह नोक्तम्, तथापि राजयक्ष्मचिकित्सोत्तमेव बोद्धव्यम् । यद्यपि तत्र चिकित्सोक्ता, तथापि इह स्वरभेदस्याधिकृतत्वात् पुनरप्युच्यते । चतुष्प्रयोगैरिति अभ्यङ्गगण्डूषलेहमस्तुप्रयोगैः। बलारास्नामृतायैः चातव्याधौ वक्ष्यमाणैः। जीवनीयघृतं वातरक्ते वक्ष्यमाणम्। बृषघृतं रक्तपित्तचिकित्सोक्तम् ।
For Private and Personal Use Only