________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६ अध्यायः ]
चिकित्सितस्थानम् ।
यच्चोक्तं दयकासन्न' तच्च सव्वं चिकित्सितम् । रक्तजखरभेदनं सिराव्यधनमेव च ॥ सन्निपाते हिताः सर्व्वाः क्रिया न तु सिराव्यधः । इत्युक्तं स्वरभेदस्य समासेन चिकित्सितम् ॥ ११२ ॥ अथ वक्ष्ये समासेन कर्णरोगचिकित् सितम् । कर्णशूले तु वातघ्नी हिता पीनसवत् क्रिया । प्रदेहाः पूरण नस्यं पाके खावे व्रण क्रिया । भोज्यानि च यथादोषं दद्यात् स्नेहांश्च पूरणान् ॥ ११३ ॥ बालमूलकशुण्ठानां चारो हिङ्ग सनागरम् । शतपुष्पा वचा कुष्ठं दारु शिग्रु रसाञ्जनम् || सौवर्चलं यवचारः स्वर्ज्जिकोद्भिदसैन्धवम् ।
भूर्ज्जग्रन्थिर्विड़ मुस्तं मधुशुक्तं चतुर्गुणम् ॥
युक्ताः । यच्च क्षयकासनमुक्तं तत् सव्व रक्तजस्वरभेदघ्नं तथा सिराव्यधनमपि । सन्निपाते स्वरभेदे सर्व्वाः क्रियाः कार्य्या, न तु सिराव्यधः कार्य्य इति । ( स्वरभेद चिकित्सा ) ॥ ११२ ॥
गङ्गाधरः - इति मुखरोगचिकित् सितमुक्तवा कर्णरोगचिकित्सामाहकर्णशूल इत्यादि । वातपीनसे या वातघ्नी क्रियोक्ता सा कर्णशूले हिता । प्रदेहादिनस्यान्तश्च वातघ्नं हितम् । कर्णस्य पाके स्रावे च व्रणवत् क्रिया काय । यथादोषं भोज्यानि च दद्यात् कर्णपूरणान् स्नेहांश्च दद्यात् ॥ ११३ ॥ गङ्गाधरः- पूरणस्नेहमाह - बालेत्यादि । बालमूलकं शुष्कीकृत्य दग्ध्वा क्षारः काय्र्यः सि च हिङ च नागरश्च । स्वर्जिकाक्षार औद्भिदं लवणमुत्कारिका ळवणम् । मुस्तान्तः कल्कः मधुशुक्तं मधुप्रधानं शुक्तं चतुर्गुणम्, मधुशुक्तं रक्तजे स्वरभेदे च इति रतन्न स्वरभेदन चिकित् सितमिति सम्बन्धः । इति स्वरभेदचिकित्सा ॥ ११२ ॥
1
चक्रपाणिः - बालमूलकशुण्ठीत्यल क्षारवत् तैलम् । मधुशुक्तं चतुर्गुणमिति मधुप्रधानं शुक्तं चतुर्गुणम् । शुकञ्च शुचौ भाण्डे द्रवनागरधान्ययुक्तं त्रिरातस्थं तत् शुकमुच्यते ।
For Private and Personal Use Only
३३५६