________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शश अध्यायः चिकित्सितस्थानम् ।
अरुचौ कवलग्राहाः धूमाः समुखधावनाः। मनोज्ञमन्नपानश्च हर्षणाश्वासनानि च ॥ कुष्ठसौवर्चलाजाजी-शर्करामरिचं विडम् । धात्रा लापद्मकोशीर-पिप्पलीचन्दनोत्पलम् ॥ लोध्र तेजोवती पथ्या अषणं सयवाग्रजम्। आदाडिमनिर्यासश्चाजाजीशर्करायुतः ॥ सतैलमाक्षिका एते चत्वारः कवलग्रहाः। चतुरोऽरोचकान् हन्युर्वातादोकजसर्वजान् ॥ १०६ ॥ काव्यजाजीमरिचं द्राक्षावृक्षाम्लदाडिमम् । सौवलं गुरुः क्षौद्र सर्वारोचकनाशनम् ॥ ११०॥ वस्तिः समीरणे पित्त विरेको वमनं कफे। कुर्याद हृद्यानुकूलानि हर्षणञ्च मनोनजे ॥ १११ ॥
गङ्गाधरः-अथारुचिचिकित्सितमाह-अरुचावित्यादि। कवडग्रहादयः कार्य्या मनोक्षश्चानपानं कार्यम्। कुष्ठेत्यादि। कुष्ठादिबिड़ान्त एका कवल्यहा। धात्रयादात्पलान्तोऽपरः । लोध्रादियवाग्रजान्तस्तृतीयः। आईक्षडिमनिर्यासादिशकेरान्तश्चतुर्थः। चतुर्वेव तैलमाक्षिके देये भवतः। चतुर इति यथायं वाताघरोचकान् ॥१०९॥
गङ्गाधरः-कारचीत्यादि। कारची कृष्णजीरकमजाजी जीरकम् । वृक्षाल तिन्तिीकम् । क्षौद्रान्तानि सर्वाणि समानि ॥११॥
माधरः-वस्तिरित्यादि। मनोनजेरोचके हृद्यान्यनुकूलानि कम्माणि (इत्यरोचकचिकित्सा) ॥१११।।
चक्रपाणिः-भरोचकचिकित्सामाह-कुष्ठ त्यादिना। अर्द्ध श्लोकोक्ताश्चत्वारो योगाः वातपित्तकफसनिपातजेषु भरोचकेषु क्रमात ज्ञेयाः ॥ १०९-१११॥
४२१
For Private and Personal Use Only