________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३५६
चरक संहिता |
चन्दनं पद्मकोशीरं मञ्जिष्ठाधातकीघनम् । प्रपौण्डरीकं यष्ट्वा त्वगेलापद्मकेशरम् ॥ लाक्षारसाञ्जनं मांसी- त्रिफलालोधबालकम् । रजन्यौ फलिनोमेलां समङ्गां कट्फलं वचाम् ॥ यवासागुरुपत्तङ्ग- गैरिकाअनमावपेत् । लवङ्गजातीक कोल - जातीकोषान् पलोन्मितान् ॥ कर्पूरकुड़वञ्चापि चिपेत् शीतेऽवतारिते । ततस्तु गुड़िकाः कार्य्याः शुष्काश्चास्येन धारयेत् ॥ तैलञ्चानेन कल्केन कषायेण च साधयेत् । दन्तानां चालनध्वंस-सौषिर्य्य क्रिमिरोगनुत् ॥ मुखास्यपाक दौर्गन्ध्य - जाड्यारोचकनाशनम् । स्त्रावोपलेपपैच्छिल्य-वैस्वर्य्यगलशोषनुत् ॥ दन्तास्यगलरोगेषु सव्र्व्वेष्वेतत् परायणम् । खदिरादिगुड़िकेयं तैलञ्च खदिरादिकम् ॥ १०८ ॥ खदिरादिगुड़िका खदिरादितैलञ्च ।
काथ चन्दनादिकमक्षमात्रं चूर्णयित्वावपेत् । ततोऽवतार्य स्थापयेत् शीते सति लवङ्गादीनां प्रत्येकं पलं चूर्ण कपूरस्य कुड़वं पुनरावपेत् । ततो गुड़िका कार्य्याः शुष्काश्वास्येन धारयेदिति । खदिरगुड़िका । तैलञ्चेत्यादि । अनेन चन्दनाद्यञ्जनान्तेन कल्केन पादिकेन । खदिरविट्खदिरयोः सारस्य कषायेण चतुगु णेन तैलञ्च साधयेदिति कश्चिदाह । परिमाणमपि खदिरसारस्य तुला विट्खदिरसारस्य द्वितुलेति पूर्वोक्तं तुलात्रयं चतुर्द्रोणजले काथयेत् पादशेषे तस्मिन् काथे चतुर्गुणे तलाढ़कम्, चन्दनादीनामञ्जनान्तानामक्षमात्र प्रत्येकं कल्कं दत्त्वा पचेत्, लवङ्गादीनां पलमात्रं कर्पूरस्य कुड़वमानश्च पूते शीते तत्र कल्क इत्याह । इति खदिरतलम् । अनयोर्गुणानाह दन्तास्येत्यादि ॥ १०८॥ सारस्य तु तुला विभक्ता एव । पत्तङ्गं रक्तचन्दनम् । लवङ्गादीनाम् भव पलमानत्वम् । दन्तास्यगदरोगा पृथक शालाक्योक्ता ज्ञेयाः । परायणमिति परमयनं श्रेष्ठ भेषजमिति यावत् । इति मुखरोगचिकित्सा ॥ १०८ ॥
For Private and Personal Use Only
[म्मियचकित्सितम्