________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६ अध्यायः चिकित्सितस्थानम्।
३३५५ तालुशोषे सतृष्णस्य सपिरोत्तरभक्तिकम् । नावनं मधुराः स्निग्धाः शोताश्चैव रसा हिताः ॥ १०६ ॥ मुखपाके सिराकर्म शिरःकायविरेचनम् । मूत्रतैलघृतक्षीर-क्षौद्रश्च कवलग्रहाः ॥ सक्षौद्रपाठामृद्वोका त्रिफलाजातिपल्लवाः । कषायतितक्काथाश्च शीताः स्युर्मखधावनाः ॥ १०७॥ तुलां खदिरसारस्य द्वितुलामरिमेदसः। प्रक्षाल्य जर्जरीकृत्य चतुर्दोणेऽम्भसः पचेत् ॥ द्रोणशेषं कषायश्च पक्त्वा भूयः पचेच्छनैः। ततस्तस्मिन् घनीभूते चूर्णीकृत्याक्षभागिकम् ॥ गङ्गाधरः-तालुशोष इत्यादि। औत्तरभक्तिकं सपिः पीला भक्तं भुञ्जीत । एवं नावनं हितम् । मधुरस्रिग्धशीता मांसरसा भोजने हिताः॥१०६ ॥
गङ्गाधरः-मुखपाक इत्यादि। सिराकर्म सिरावेधः। शिरोविरेचनम्, कायविरेचनश्च द्विविधं वमनं विरेचनश्च। गोमूत्रादीनामेकैकेन कवडग्रहश्च मुखपाके कार्यः। सक्षौद्रेत्यादि । जात्याः पल्ल्याः पागदयः कथिता मधुयुक्ता मुखधावनाः स्युस्तथा कषायतिक्तद्रव्याणां काथाश्च शीता मुखधावनाः सुः।। १०७॥ - गङ्गापरः-तुलामित्यादि। खदिरसारस्य श्वेतखदिरसारस्य तुलां न तु कचोलस्य । अरिमेदसो विट्ख दिरस्य सारस्य द्वितुलाम्। तिस्रस्तुलास्त्रिषु द्रोणेषु अम्भसः पक्तव्याः स्युः 'तुलाद्रव्ये जलद्रोग' इत्युक्तस्तत्राह चतुद्रोणेऽम्भसः पचेदिति। द्रोणशेषं तं कषायं पूत्वा भूयः शनैः पचेत्। घनीभूते तस्मिन्
चक्रपाणिः-तालुशोष इत्यादौ सतृष्णस्येतिपदेन तृष्णायुक्तस्य तालुशोष औत्तरभक्तिकमपि सर्पिःपानं न निषेधयति। तालुशोपे च तृष्णामूर्छापरीताश्च गर्भिण्यस्तालुशोषिण इत्यादिना यद्यपि स्नेहपानं निषिद्धम्, वथापोह औत्तरभक्तिकं सर्पिश्च विशेषविधानात् कर्त्तव्यमेव। सिराकम्मति सिरान्यधनम् । तच्च सुश्रुतवचनात् तालुनि जिह्वायाञ्च कर्त्तव्यम् ॥ १०६।१०७॥
चक्रपाणिः-तुलामित्यादिना खदिरादिगुटिकामाह। द्विगुलामरिमेदसो विटखदिरस्य खदिर
For Private and Personal Use Only