________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३५२
चरक-संहिता। तिमीयचिकिस्सितम् त्वगदन्तीव्याघ्रकरज-विड़गनवमालिकाः। अपामार्गफलं वीजं नक्तमालशिरीषयोः। तवकोऽश्मन्तको बिल्वं हरिद्रा हिड यूथिका। फणिज्झकश्च तैस्तैलमवीमूत्रे चतुर्गुणे। सिद्धं स्यान्नावनं चूर्णञ्चैषां प्रधमनं भवेत् ॥१८॥ फलं शिग्रु कराभ्यां सव्योषं चावपीड़कः। कषायः स्वरसः क्षारश्चूर्ण कल्कोऽवपीड़कः । शुक्ततिक्तकटुक्षौद्र-कषायैः कवलग्रहः ॥ १६ ॥ धूमः प्रधमनं शुद्धिरधश्छर्दनलकने।
भोज्यश्च मुखरोगेषु यथास्वं दोषनुद्धितम् ॥ १०॥ द्रव्यरुक्तां वर्ति धूमं पिबेत् । सन्निपाते सन्निपातहरी क्रिया च कार्यो। क्रिमिजे शिरोरोगे तीक्ष्णं शिरोविरेचनं कार्यम् ॥९५-९७॥ - गङ्गाधरः-खगित्यादि। खक गुडलक । व्याघ्रकरजो व्याघ्रनखः। नवमालिका नवमल्लिका। नक्तमालशिरीषयोर्वीजम् । क्षवको हाचिका। अश्मान्तक अम्ल. लोटकः। फणिज्झकः पर्णासभेदः। खगादिभिरेतैः कल्कैः पादिकश्चतुर्गुणे मेषीमूत्रे सिद्धं तैलं नावनं भवेदेवमेषां खगादीनां चूर्ण प्रधमनं द्विमुखनलिकाच्छिद्रे क्षिप्ता नासापुटे दद्यात् फुत्कारेण ॥९८॥
. गङ्गाधरः-फलमित्यादि। शिग्र करञ्जाभ्यां फलं सव्योषं गृहीखा जलेन पिष्ट्वाऽवपीड़को देयः। तथा तेषां शिग्र फलादीनां कषायः खरसः क्षारश्वर्णञ्च कल्कश्चावपीड़ो देयः। कवलग्रहश्च शुक्लादिभिः कार्य इति सझेपेण शिरोरोगचिकित्सितमुक्तम् ॥९९ ॥
गङ्गाधरः-अथ मुखरोगचिकित्सितमाह-धूम इत्यादि। अधःशुद्धिविरेचनम्। यथास्वं दोषनुभोज्यश्च मुखरोगेषु हितम् ॥१०॥ भकुष्ठतगररिति अगुवा॑दिगन्धैः। कुष्ठतगरवजनचास मस्तुलुङ्गनाववर्जनार्थम्। उका शालाक्ये-'न तु कुष्ठं नाघयतो धूमवर्ति प्रयोजयेत्। मस्तुलग प्रकर्षण तस्मात् सं नैव योजयेत् ॥ इति शिरोरोगचिकित्सा ॥ ९६-९९ ॥
For Private and Personal Use Only