________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६श अध्यायः चिकित्सितस्थानम्।
यवक्षारं पिप्पलीञ्च सदाझैत्वग रसाञ्जनम् । पाठां तेजोवती पथ्यां समभागानि चूर्णयेत् ॥ सक्षौद्र धारयेदेतत् मुखरोगेषु बुद्धिमान् । सोधुमाधवमाध्वीकैः श्रेष्ठोऽयं कवलग्रहः ॥ तेजोहामभयां मूर्खा समझा कटुकी धनम् । पाठां रसाञ्जनं लोध्र दाज़ कुष्ठश्च चूर्णयेत् । दन्तानां घर्षणं रक्त-स्रावकण्डूरुजापहम् ॥ पञ्चकोलकतालीश-पत्रैलामरिचत्वचः। पलाशमुष्ककक्षार-यवक्षाराश्च चूर्णिताः॥ गुड़े पुराणे द्विगुणे कथिते गुड़िकाः कृताः। कर्कन्धुमात्राः सप्ताहं स्थिता मुष्ककभस्मनि । कण्ठरोगेषु सर्वेषु धार्याः स्युरमृतोपमाः ॥ १०१ ॥ गृहधूमो यवक्षारः पाठा व्योषं रसाञ्जनम् । तेजोहा त्रिफला लोध्र चित्रकञ्चेति चूर्णितम् ॥ सक्षौद्र धारयेदेतद् गलरोगविनाशनम् । काणकं ® नाम तच्चूर्ण दन्तास्यगलरोगनुत् ॥ १०२॥ गङ्गाधरः-यवक्षारमित्यादि। यवक्षारादिकं समभागेन चूर्णीकृत्य क्षौद्रेण गोलयित्वा मुग्वे धारयेत् । सीधुप्रभृतिभिः कवडग्रहः श्रेष्ठः। तेजोहादिकं पूर्णयिखा दन्तवेष्टेभ्यो रक्तस्रावकण्डूरुजापहं तेन दन्तानां घर्षणम्। पञ्चकोलेत्यादि। पलाशादीनां क्षाराः पञ्चकोलादीनां चूर्णाद द्विगुणे पुराणगुड़े कथिते पक्वे गुड़िकाः कर्कन्धुमात्राः कृताः मुष्ककस्य भस्मनि सप्ताह स्थितास्ततः परं सव्वंषु कण्ठरोगेषु धार्याः स्युः॥१०१॥
गङ्गाधरः-गृहेत्यादि। गृहधूमादिकं समं सर्व चूर्णितं कुखा क्षौद्रेणालोज्य मुखे धारयेदिति। काणकं चर्णम् ॥ २०२॥ .. चक्रपाणिः-शुद्धिरधः इति विरेचनम्। वास्विगिति दाास्त्वम्। रुजापहमिति
• कालकमिति बहुषु प्रन्थेषु पाठः ।
For Private and Personal Use Only