________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३५०
चरक संहिता
1
मन्या पृष्ठग्रहे शोषे खरभेदे तथादितै । योन्यसृक्शुक्रदोषेषु शस्तं बन्ध्यासुतप्रदम् ॥ महामायूरमित्येतत् घृतमात्रेयपूजितम् ॥ ६२ ॥ (चतुःप्रयोग मेवेदमग्निवेशप्रकाशितम् । )
[तिमम्यचिकित्सितम्
For Private and Personal Use Only
महामायूरघृतम् ॥
प्राखुभिः कुक्कुटहसैः शरैश्चापि हि बुद्धिमान् । कल्पेनानेन विपचेत् सर्पिरूद्ध गदापहम् ॥ ६३ ॥ पैत्ते घृतं पयः सेकाः शीता लेपाः सनावनाः । जीवनीयानि सर्पी षि पानान्नञ्चापि पित्तनुत् ॥ चन्दनोशीरयष्ट्याह्न- बलाव्याघ्रनखोत्पलैः । चीरपिष्टैः प्रदेहः स्यात् श्रुतैर्वा परिषेचनम् ॥ विपाचयेत् । इति पूव्वकल्पेन साधितं घृतमेतत् पानादौ प्रयोजयेत् । महामायूरं घृतम् ॥ ९२ ॥
गङ्गाधरः- आखुभिरित्यादि । कल्पेनानेन मायूर महामायूरघृतसाधनकल्पेन । आखुभिः कुक्कटः शाकैथ पक्षादिवर्मा सास्थिभिदशमूल्यादिभिः सह काथेन त्रिगुणेन समक्षीरेण मधुकैः कार्षिकः कल्कै घृतमस्थं पचेदिति । आखुघृतम् । जीवन्त्यादिभिः कल्कैः कार्षिकैश्चतुगुणेन पयसा चतुर्गुणेन च पित्तादिवज्र्जिता खुसहित दशमूल्यादिकाथेन घृतप्रस्थं पचेदिति । महाखुघृतम् । एवं कुक्कुटघृतं महाकुक्कुटघृतं हंसघृतं महाहंसघृतं शशक घृतं महाशशिकघृतञ्च पचेत् । इति वातज शिरोरोगचिकित्सा ।। ९३ ।।
गङ्गाधरः- अथ पित्तज शिरोरोग चिकित्सामाह- पैत्तं घृतमित्यादि । पैसें शिरोरोगे घृतं सेकाः शीता लेपाश्च शीता नावनश्च शीतम् । जीवनीयानि सर्पी षि पिचनुत् पानान्नञ्च । शीतप्रदेहमाह - चन्दनेत्यादि । क्षीरपिष्टैश्चन्द नादिभिपः शिरसि । भृतैर्वा जले काथविधिना पक्वैश्चन्दनादिभिः कथितैः तेनैव कषायेणत्यादिना सिद्धम्, तथापि पुनः पूर्वकल्केनेति वच्चनेन यथालाभमिति च पदेन यथालामं करणीयत्वं दर्शयति ॥ ९२ ॥
चक्रपाणिः —भत्र मयूरस्थाने मूषकादीन् दर्शयन्नाह - आस्वभिरित्यादिना । आखना मयूरा