________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६ अध्यायः]
३३४४
२६श अध्यायः] चिकित्सितस्थानम् । एतेनैव कषायेण घृतप्रस्थं विपाचयेत्। चतुर्गणेन पयसा कल्कैरेभिश्च कार्षिकैः॥ जीवन्तीत्रिफलामेदा-मृद्वोकर्चिपरूषकैः। समाचविकाभार्गी-काश्मरीकर्कटायः॥ आत्मगुप्तामहामेदा-तालखजूरमस्तकैः। मृणालविसखजूर-मधुकैश्च सजीरकैः॥ शतावरीविदारीक्षु-वृहतीसारिवायुगैः। मूर्वाश्वदंष्ट्रषभक-शृङ्गाटककशेरुकैः ॥ रास्नास्थिरातामलकी-सूक्ष्मैलाशठीपौष्करैः। पुनर्नवातुगाक्षोरी-काकोलीधन्वयासकैः ॥ मधुकाक्षोड़वादाम-मुजाताभिषुकैरपि। द्रव्यैरेभिर्यथालाभं पूर्वकल्पेनसाधितम् ॥ पाने नस्य तथाभ्यङ्गे वस्तौ चैतत् प्रदापयेत् । शिरोरोगेषु सर्वेषु कासे श्वासे च दारुणे॥
गङ्गाधरः-एतेनैवेत्यादि। जीवन्त्यादीनां प्रत्येकं यथालाभं कार्षिकैः कल्कैर्यथालाभे कल्कस्य न्यूनाधिक्यमाने दोषाभावः। तालखजूरयोर्मस्तकं तथा खजू रस्य फलम्। आक्षोः कर्परालः, आखरोट इति लोके । वादामश्च लोके तन्नाम्ना प्रसिद्ध एव। मुञ्जात उत्तरदेशे कन्दविशेषः । अभिषुकः फलविशेषः। एभिर्यथालाभं द्रव्यैः कार्षिकैः कल्कैः एतेनैव दशमूल्यादिमयूरान्तकाथेन चतुगुणेन पयसा तु समेन क्षीरं स्नेहसमं मतमित्युक्तेः। अथवा चतुर्गुणेन पयसेति दशमूल्यादिमयरान्तकाथेन त्रिगुणेनेति घृतपस्य
चक्रपाणिः-एतेनैवेति दशमूलादिमयूरक्काथेन यथोक्कविधानकृतेन। द्वितीयखजूरशब्देन खजूरफलं गृह्यते । भनोडवातामादीनि औत्तरपथिकानि। पूर्वयोमोक्तनाथविधानं यद्यप्ये.
४२०
For Private and Personal Use Only