________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चरक संहिता |
-
Acharya Shri Kailassagarsuri Gyanmandir
३३४८
जले पक्त्वा घृतप्रस्थं तस्मिन् चीरसमं पचेत् । मधुकः कार्षिकः कल्कैः शिरोरोगाद्दि तापहम् ॥ कर्णनासाचि जिह्वास्य- गलरोग विनाशनम् । मायूरमितिविख्यातमूर्द्धजत्रु गदापहम् ॥ ६१ ॥
[विमम्यचिकित्सितम्
दिभिः सह जलेऽष्टगुणे पक्त्वा चतुर्था शशेषं तस्मिन् काथे क्षीरसमं घृतमस्थं पचेत् मधुरैर्जीवनीयदेशभिः कल्कैः कार्षिकै तस्य पादिकैः । अत्र कचित् पाठः । “दशमूलबलारास्नामधुकैखिपलैः सह " इति । तेन दशमूल्यादीनां प्रत्येकं त्रिपलग्रहणेन त्रयोदशद्रव्याणामेकोनचत्वारिंशत् पलानि भवन्ति पक्षादिवज्र्जितमायरमांसास्थि च तत्सममष्टगुणे जले पचेदिति कश्चित् । अन्ये तु दशमूल्यादिकमेकोनचत्वारिंशत्पलं मायूरमांसास्थि चाकृतिमानादेकमेव मयूरं पक्षादिवज्र्जं यावत् स्यात् तावद् गृह्णन्ति । जलश्चाष्टगुणमेव सर्व्वद्रव्यापेक्षया ददति । " त्रिफला मधुकैः सहेति पाठे दशमूल्यादीनां मानानुक्तेरुत्सगंतश्चतुर्गुणद्रव्यसाध्यत्वात् स्नेहस्यात्र समक्षीरविधानात् त्रिगुणः कायः कार्य्यो यावता दशमूल्यादिमायूरमांसास्थिसमुदायेन तावदत्र ग्राह्यं तत्र दशमूल्यादिद्रव्यं यावत् तावन्मायूरं मांसमस्थि च ग्राह्य' न खाकृतिमानेन कस्य मयूरस्य काथाल्पत्वापत्तेः । एतदभि प्रायेणाखुभिः कुक्कुट से रिति वक्ष्यमाणवचनेऽनेन कल्पेन काथसाधने बहुवचनान्तप्रयोगा आखुभिरित्यादयः कृताः । अन्यथाखुरप्याकृतिमानेने कर कुक्कुटr ar aar गृह्यतां बहुवचनमनर्थकं स्यात् । तथा च दशमूल्यादीनां मानानुक्तौ षोड़शानां प्रत्येकं सार्द्धं पलं मिलित्वा चतुर्विंशतिपलं, मायूरमांसास्थि चतुर्विंशतिपलं, तत्र मांसस्यास्थ्नो नियमो नास्ति नास्ति पक्षादिवज्जनाच्छेषं यावन्मांसमस्थि च लभ्यते तावदेव चतुर्व्विशतिपलमिति दशमूल्यादिमांसास्थ्यन्तं षट् शरावमष्टचखारिंशच्छरावमिते जले पत्वा द्वादशशरावावशेषे कार्य घृतात् त्रिगुणे समक्षीरे घृतप्रस्थं पचेत् । स्वल्पमायूरघृतम् ॥ ९१ ॥
For Private and Personal Use Only
जलद्रोणे एव पचेत् । जलद्रोणो हि यत काथार्थं घृतप्रस्थात् पादावशेषत्वम् समचतुर्गुणो भवति । किञ्च दशमूलादीनाम् ऊनचत्वारिंशत्पलेन मयूरेण च चतुःषष्टिपले क्वाथ्ये द्रोणमानं जलं देयम् । किंवा दशमूलादीनां मयूरेण च मिलित्वा यावत् क्वाथ्यं भवति तच्चतुर्गुणजलमुत्सर्गपरिभाषयैव देयम् । मधुरैरिति जीवनीयगणोक्तैर्दशभिः । जीवनीयानि मधुरत्वप्रकर्षादिह मधुरशब्देनोच्यते ॥ ८८-११ ॥