________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६श अध्यायः] चिकित्सितस्थानम् । ३३४५
मन्दपित्ते प्रतिश्याये स्निग्धैः कुर्य्याद विरेचनम् । घृतं क्षीरं यवाः शालिगोधूमा जाङ्गला रसाः। शोताम्लास्तिक्तशाकानि यूषा मुद्दादिभिहिताः॥८४ ॥ गौरवारोचकेष्वादौ लङ्घनं कफपीनसे। स्वेदाः सेकाश्च पाकाथं लिप्ते शिरसि सर्पिषा ॥ लसुन मुद्गचूर्णेन व्योषक्षारघृतैर्युतम् । देयं कफन्तवमनमुक्लिष्टश्लेष्मणे हितम् ॥ अपीनसे पूतिनस्ये घ्राणस्रावे सकण्डुके। धूमः शस्तोऽवपीडश्च कटुभिः कफपीनसे ॥ मनःशिलावचाव्योष-विडङ्ग हिङ्गु गुग्गुलुः । चूर्णैः प्रायः प्रधमनः कटुभिस्त्रिफलैः सह ॥ भार्गीमदनतर्कारी-सुरसादिविपाचितम्। तैलं सर्षपज बल्यं कफपीनसशान्तये ॥
गङ्गाधरः-मन्दपित्त इत्यादि। स्निग्धेरेरण्डतैलादिभिः। घृतादयश्च भोजने हिताः॥८४॥
गङ्गाधरः-अथ कफामपीनसचिकित्सामाह। गौरवेत्यादि। आदौ कफपीनसे गौरवारोचकेषु लङ्घनम्। कफपाकार्य सर्पिषा लिप्ते शिरसि स्वेदाश्च सेकाश्च। लसुनमित्यादि। उक्लिष्टश्चेत् श्लेष्मा भवति तदा मुदगचूर्णव्योपचूर्णयवक्षारघृतयुतं लसुनं कफन वमनं हितं देयम्। अपीनस इत्यादि। अपीनसादिषु धूमोऽवपीड़श्च शस्तः। कफपीनसे कटुभिरव. पीडश्च शस्तः। मनःशिलेत्यादि। मनःशिलादीनां चूर्णः प्रायः प्रधमनो द्विमुखनलिकया फत्कारेण नासिकापुटे देयः, त्रिफलैः सह कटुभिर्मरिचा. दिभिः कटद्रव्यैः प्रधमनः। भार्गीत्यादि । तर्कारी जयन्ती। सुरसादिर्गणः । एतै
चक्रणाणिः -मन्दपित्ते इति ईषपित्ते देयम्। कफनवमनमिति कफन्नद्रव्यकृतं वमनं देयमित्यर्थः।
For Private and Personal Use Only