________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३४४
चरक-संहिता। त्रिमर्मीयचिकित्सितम् स्निग्धस्यास्थापनदोष निर्हरेद वातपीनसे। स्निग्धाम्लोष्णैश्च लघ्वन्नं ग्राम्यादीनां रसहितम् ॥ उष्णाम्बुना स्नानपानं निवातोष्णप्रतिश्रयः। चिन्ताव्यवायव्यायाम-वाक्चेष्टाविरतो भवेत् । वातजे पीनसे धोमानिच्छन्नेवात्मनो हितम् ॥८०॥ पित्ते सर्पिः पिबेत् सिद्धं शृङ्गवेरभृतं पयः। पाचनार्थे पिबेत् पक्वे कायं मूर्द्धविरेचनम् ॥ पाठाद्विरजनीमूर्खा-पिप्पलीजातिपल्लवैः। दन्त्या च सिद्धं तत् तोयं नस्यं स्यात् पक्कपीनसे ॥८१८२ पूयास्त्ररक्तपित्तनाः कषाया नावनानि च । पाकदाहाढ्यरूक्षेषु शीताः सेकाः प्रलेपनाः।
स्नेहनस्योपचाराश्च कषायाः स्वादुशीतलाः॥३॥ तत् अणुतैलं स्मृतमिति। प्रतिश्यायस्यामतालक्षणमुक्तमन्यत्र। “शिरोगुरुखमरुचि
सास्रावस्तनुस्वरः । क्षामः ष्ठीवत्यथाभीक्ष्णमामपीनसलक्षणम् । आमलिङ्गान्वितः श्लेष्मा घनः खेषु निमज्जति। स्वरवर्णविशुद्धिश्च पकपीनसलक्षणम् ॥" इति । स्निग्धस्येत्यादि । पक पोनसे स्निग्धस्यास्थापनदोष निर्हरेत् । स्निग्धादिभिर्गाम्यादिमांसरसैर्लध्वन्नं हितम् । उष्णाम्बुना स्नानं पानश्चोष्णाम्बुनः । निवाते चोष्णे च गृहे प्रतिश्रयः । चिन्तादिभ्यश्च विरतो भवेत् ॥ ८॥
गङ्गाधरः-अथ पित्तप्रतिश्यायचिकित्सामाह-पित्ते इत्यादि । सिद्धं पक्क पित्तहरैर्द्रव्यः सर्पिः पिवेत् । शृङ्गवेरभृतं पयश्च पिबेत् । पके पीनसे मूर्द्धविरेचनं कार्यम्। मूर्द्ध विरेचनार्थ नस्यमाह-पाठेत्यादि। पाठादिदन्तान्तः कल्कः सिद्धं तोयं पकपीनसे पित्तजे नस्यं स्यात् ।। ८१ । ८२॥
गङ्गाधरः-पूयेत्यादि। पूयासना रक्तपित्तनाश्च ये कषाया यानि नावनानि च तानि शीताः सेकाः प्रलेपनाश्च शीताः नासापाकादिषु हिताः स्युः। स्नेहस्य नस्यमुपचाराश्च कायोः। स्वादुशीतलाः कषायाश्च हिताः॥८॥ स्निग्धाम्लेत्यादिना आचारमाह-निवातोप्यप्रतिश्रय इति निबातोष्णगृहस्थायी। पैते सर्पिः पिबेत् सिद्धमिरयन शृङ्गवेरसिद्ध मेव सपिदेयम् । रक्तपित्तना इति रक्तपित्तचिकित्सोक्ताः ॥७८-८३॥
For Private and Personal Use Only