________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६श अध्यायः चिकित्सितस्थानम् । ३३४३
शङ्खमूर्खललाटान्ते पाणिस्वेदोपनाहनम् । स्वभ्यक्त क्षवथस्त्राव-रोधादौ सङ्करादयः॥ ७७ ॥ घ्रया रोहिषतर्कारी-वचाजीरकचोरकाः। त्वपत्रमरिचलानां चूर्णा वा सोपकुञ्चिकाः ॥७॥ स्रोतःशृङ्गाटनासाक्षि-शोषे तैलञ्च नावनम् । प्रभाव्याजे तिलान् क्षीरे तेन पिष्टान् तदुष्मणा । मन्दखिन्नान् सयष्टयावान् चूर्णा स्तेनैव पीड़येत् ॥ दशमूलस्य निक्वाथे रानामधुककल्कवत् । सिद्धं ससैन्धवं तैलं दशकृतोऽणु तत् स्मृतम् ॥ ७९ ॥ गङ्गाधरः-शङ्खादिषु स्वेदोपनाहनं वैद्यः प्रयोजयेत्। तत्र स्वेदानाह । खभ्यक्त इत्यादि। क्षवथुस्रावयो रोधादौ सकरादयः स्वेदास्तैलाभ्यक्ते देहे प्रयोज्याः ॥ ७७ ।।
गाधरः-रोहिषादिचोरकान्ताश्चर्णिता घेया नस्य कार्यम्। सेहिषं गन्धणं तर्कारी जयन्ती तस्या मूळं चोरकः पिड़ा इति लोके। अथवा सोप. कुञ्चिकास्वगादीनां चूर्णा घ्रया नस्य कार्यमिति ॥ ७८॥
गङ्गाधरः-एवं वातपतिश्याये स्रोतःप्रभृतिशोषे तैलमतः परं वक्ष्यमाणं नावनं काय्ये मिति। तैलमाह-प्रभाव्येत्यादि। आजे क्षीरे कृष्णान् तिलाम् प्रभाव्य भावयिता तेनाजेन क्षीरेण पिष्टांस्तांस्तिलास्तदुष्मणा तस्यैवाजक्षीरं हण्डिकायां प्रक्षिप्य मुरवं वस्त्रेण बद्धा तद्वस्त्रोपरि तांस्तिलान् विन्यस्य चुल्ल्या. मारोप्याधस्तादग्निना ज्वाला देया, तदुष्मणा मन्दखिन्नांस्तांस्तिलान् यष्टयाहचूर्णमिश्रितान् तेनैवाजदुग्धेन पीड़येत् । तत् तिलतैलं दशमूलकाथ चतुर्गुणे पादिकरास्नादिसैन्धवान्तकल्कयुक्तं सिद्धं पक्कमित्येवंप्रकारेण दशकृतः सिद्धमण भोऽभिधाय पाणिस्वेदोपनाहनं पाणिस्वेदश्च उपनाहनञ्च पाणिस्वेदोपनाहनम्। अवरोध इत्यत्र भवरोधशब्देन प्रतीनाहोऽभिधीयते । सङ्करादयः प्रच्छानकादयः स्वेदाध्यायोकाः स्वेदाः ॥७६७७॥
चक्रपाणिः-तारी जीवन्ती। शृङ्गाटनासाक्षिशोष नावनं तैलं युक्तम् । तत् तेलमाह-- प्रभाब्याजे इत्यादि। तदुष्मणेति क्षीरोष्मणा, मन्दस्विन्नानिति मन्दं स्विज्ञान् । सयपाहघूर्णानिति यष्टयाह्नचूर्णस्याप्रधानत्वात् विलचूर्णात् पादिकत्वम्। तेनैव पीडयेदिति अजाक्षीरेण । एवं तैलस्य दशमूलनिःक्काथादिभिः दशकृत्वो पाकात् सिद्धं तैलं वातपीनसे युम्ज्यात् ।
For Private and Personal Use Only