________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। [त्रिमर्मीयचिकित्सितम् आर्त्तकालवचालं वा विडङ्ग कुष्ठपिप्पली। कृत्वा कल्कं करअञ्च तैलं तैः सार्षपं पचेत् ॥ पाकान्मुक्ते घने नस्यमेतन्मेदोऽन्विते कफे। स्निग्धस्य व्याहते वेगे छईनं कफपीनसे॥ वमनीयकृतक्षीर-तिलमाषयवागुना। यवाग्वा मदनक्षीर-तिलमाषोपसिद्धया ॥८५॥ कफनमन्नं वार्ताक-कुलत्थाढकिमुद्गजाः। यूषाः सकुलकव्योषाः शस्तास्तोयोष्णसेविनः ॥८६॥ सर्वजित् पीनसे दुष्टे कायं शोफे तु शोफनुत् ।
चारोऽव॑दाधिमांसेष क्रिया सव्वेष्ववेक्ष्य च ॥७॥ विपाचितं तैलं मेदोऽन्विते कफे नस्यम्। तथा आर्तकालादिकरजान्तं कल्क कृला सार्षपतैलं पचेत्। पाकान्मुक्त परिपके पीनसे मेदोऽन्विते कफे क्षरिते एतत्तैलं नस्यं स्यात् । आतः कुष्ठं काला अगुरु आलं हरितालम् । स्निग्धस्येत्यादि । कफपीनसे वेगे व्याहते स्निग्धस्य छईनं वमनं कार्यम्। छईनमाहवमनीयेत्यादि। फलिनी-मूलिनीवमनीयद्रव्यैः शृतं क्षीरश्च तिलाश्च माषाश्च यवागूश्च तेन छईनम्। समाहारात् क्लीवम् । मदनादुरपसिद्धया यवाग्वा वा छईनमिति ॥ ८५॥ ___ गङ्गाधरः-भोजनमाह-कफनमित्यादि। कफन्नधान्यकृतमन्नं वार्ताकादियूषाः सव्योषाः शस्ताः तोयश्चोष्णम् । इति कफपीनसचिकित्सा ॥८॥ ___ गङ्गाधरः-सन्निपातपीनसचिकित्सामाह-सर्व जिवित्यादि। त्रिदोषजे पीनसे सर्वजित् सर्वदोषजित् वातादिदोषजिद गद् यदुक्तं तत् त्रयाणां मिश्र कार्यम्। दुष्टे पीनसे च सर्वजित् कर्म कार्यम्। रक्तजे पित्तजित् काय्यमिति। प्रतिश्यायचिकित्सामुक्त्वा प्रतिश्यायाजातशोफादिचिकित्सामाह-शोफे वित्यादि। प्रतिश्यायाजाते शोफे शोफजित् कर्म कार्यम् । प्रतिश्यायाजातेष्ववंदादिषु क्षारो देयः। सव्वष्वपीनसादिषु नासारोगेषु अवेक्ष्य रोगविशेष क्रिया कार्या॥८७॥ टुभिः फलैरिति मरीचपिप्पल्यादिभिः। पाकान्मुक्त इति पाकावसामान्च्युते। व्याहते वेग इति पीनस स्य देगे मन्दीभूते। शोफे चेति नासाशोफे ॥ ८४-८७ ॥
For Private and Personal Use Only