________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६श अध्यायः
रि
चिकित्सितस्थानम् । तेजः सवातं खलु केशभूमि दग्धा तु कुर्यात् खलितिं नरस्य । किञ्चित्त दग्ध्वा पलितानि कुर्य्याद्
हरित्प्रभत्वञ्च शिरोरुहाणाम् ॥७४ ॥ पड़िमे च रागा दृष्टयाश्रया षट् च षड़ेव च स्युः। तथा नरः पित्तविदग्धदृष्टिः कफेन चान्यस्त्वथ धूमदर्शी। यो इस्खजाड्यो नकुलान्धता च गम्भीरसंशा च तथैव दृष्टिः ॥ पित्तेन दुष्टेन गतेन दृष्टिं पीता भवेद यस्य नरस्य दृष्टिः। पीतानि रूपाणि च मन्यते यः स मानवः पित्तविदग्धदृष्टिः॥ प्राप्ते तृतीयं पटलन्तु दोषे दिवा न पश्येनिशि वीक्षते च॥ तथा नरः श्लेष्मविदग्धदृष्टिस्तान्येव शुक्लानि हि मन्यते तु। त्रिषु स्थितोऽल्पः पटलेषु दोषो नक्तान्ध्यमा. पादयति प्रसह्य । दिवा स सूर्यानुगृहोतदृष्टिवर्वीक्षेत रूपाणि कफाल्पभावात् ॥ शोकज्वरायासशिरोऽभितापैरभ्याहता यस्य नरस्य दृष्टिः। स धूमकान् पश्यति यो हि भावांस्तं धूमदर्शीति वदन्ति रोगम् ॥ स इस्वजाड्यो दिवसेषु कृच्छात् हस्वानि रूपाणि च यो न पश्येत् । रात्रौ स शीतानुगृहीतदृष्टिः पित्ताल्प. भावादपि तानि पश्येत् ॥ विद्योतते येन नरस्य दृष्टिदोषाभिपन्ना नकुलस्य यद्वत। चित्राणि रूपाणि दिवा स पश्येत् स वै विकारो नकुलान्ध्यसंशः॥ दृष्टिविरूपा श्वसनोपसृष्टा सङ्घ च्यतेऽभ्यन्तरतश्च याति। रुजावगाढ़ा च तमक्षिरोगं गम्भीरिकेति प्रवदन्ति तज्ज्ञाः॥ वाह्यौ पुनाविह सम्पदिष्टौ निमित्ततश्चाप्यनिमित्ततश्च । निमित्ततस्तत्र शिरोऽभितापात् शेयस्वभिष्यन्दनिदर्शनैश्च ॥ सुरर्षिगन्धर्चमहोरगाणां सन्दर्शनेनापि च भाखराणाम् । इन्येत दृष्टिर्मनुजस्य यस्य स लिङ्गनाशस्वनिमित्तसंशः॥ तत्राक्षि विस्पष्टमिवावभाति वैदूर्यवर्णा विमला च दृष्टिः। विदीयंते सीदति हीयते वा नृणाममीघातहता तु दृष्टिः॥ इत्येते नयनगता महाविकाराः सयाताः पृथगिह षट् च सप्ततिश्च । एतेषां पृथगिह विस्तरेण सर्च वक्ष्येऽह तदनु चिकित्सितश्च तावत् ॥” इति ॥७३॥
गाधरः इत्येवमक्षिरोगानन्तरं खालित्यमाह-तेज इत्यादि। सवातं तेजः केशभूमि दग्ध्वा नरस्य खलितिं कुर्यात् । केशभूमिं किश्चिदल्पं दग्ध्या
चक्रपाणिः-तेज इत्यादिना खालित्यलक्षणमाह । तेजाशब्देन देहोष्माभिमतः, स बाताययुका खालित्यं करोतीति योजनीयम्। केचित् तु तेजःशब्देन पित्तमपि वर्णन्ति । हरित
For Private and Personal Use Only