________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३४०
चरक-संहिता। [त्रिमर्मीयचिकित्सितम् दृष्टिौषे बलीयसि। अधःस्थिते समीपस्थं दूरस्थश्चोपरिस्थिते। पार्श्व स्थिते तथा दोषे पाचस्थानि न पश्यति ॥ समन्ततः स्थिते दोषे सङ्घलानीव पश्यति । दृष्टिमध्यगते दोष स एकं मन्यते द्विधा। द्विधास्थिते त्रिधा पश्येद् बहुधा चानवस्थिते ॥ तिमिराख्यः स वै दोषश्चतुर्थं पटलं गतः। रुणद्धि सचेतो दृष्टिं लिङ्गनाशः स उच्यते। तस्मिन्नपि तमोभूते नातिरूढ़े महागदे। चन्द्रादित्यौ सनक्षत्रावन्तरीक्षे च विदुरतः। निर्मलानि च तेजांसि भ्राजिष्णूनि च पश्यति । स एव लिङ्गनाशस्तु नीलिकाकाचसंशितः॥ तत्र वातेन रूपाणि भ्रमन्तीव स पश्यति। आविलान्यरुणाभानि व्याविद्धानि च मानवः ॥ पित्तेनादित्यखद्योत शकचापतडिदगुणान् । शिशिबहे विचित्राणि नीलकृष्णानि पश्यति ॥ गौरचामरगौराणि श्वेताभ्रपतिमानि च। पश्येदसूक्ष्माण्यत्यर्थं व्य चैवाभ्रसंप्लवम्। सलिलप्लावितानीव परिजाड्यानि मानवः। कफेन पश्येद रूपाणि स्निग्धानि च सितानि च॥ तथा रक्तन रक्तानि तमांसि विविधानि च। हरितश्यावकृष्णानि धूमधूम्राणि चेक्षते ॥ सन्निपातेन चित्राणि विप्लुतानीव पश्यति। बहुधा वा द्विधा वापि साण्येव समन्ततः। हीनाधिकाङ्गान्यथवा ज्योतीष्पपि च पश्यति । पित्तं कुर्यात् परिम्लायि मूर्च्छितं रक्ततेजसा । पीता दिशस्तथोद्यन्तमादित्यमिव पस्यति। विकीर्यमाणान् खद्योतक्षास्तेजोभिरेव च। लिङ्गनाशाः षट् सर्वथादृष्टिरोधवातपित्तकफशोणितसन्निपातजाः तिमिराणि चेति षट्। वक्ष्यामि पविध रागर्लिङ्गनाशमतः परम् । रागोऽरुणो मारुतजः प्रदिष्टः पित्तात् परिम्लाय्यथवापि नीलः । कफात् सितः शोणितजस्तु रक्तः समस्तदोषस्तु विचित्ररूपः ॥ रक्तजं मण्डलं दृष्टौ स्थूलकाचारुणप्रभम् । परिम्लायिनि रोगे स्यात् म्लाय्यानीलञ्च मण्डलम्। दोषक्षयात् कदाचित् स्यात् स्वयं तत्र च दशनम् ॥ अरुणं मण्डलं वाताचश्चलं परुषं तथा। पित्तात् मण्डल. मानीलं कांस्याभं पीतमेव वा। श्लेष्मणा बहलं स्निग्धं शङ्खकुन्देन्दुपाण्डरम्। चलत्पद्मपलाशस्थः शुक्लबिन्दुरिवाम्भसः। मृज्यमाने च नयने मण्डलं तद विसपेति॥ प्रबालपद्मपत्रामं मण्डलं शोणितात्मकम। दृष्टिरागो भवेच्चित्रो लिङ्गनाशे त्रिदोषजे। यथास्वदोषलिङ्गानि सव्वष्वेव भवन्ति हि ॥ इति वातपित्तजद्विविधकफजरक्तजसन्निपातजाः षड़रागास्तत्र दृष्टिमध्ये मण्डलानि षड़ विधानि पित्तादेव परिम्लायिरोगस्तत्र रक्तजकाचप्रमं म्लायि चानीलञ्च मण्डलं वातादरुणादि पित्तादानीलकांस्याभं श्लेष्मणा बहलादि रक्ताद प्रबालादिरूपम् विचित्रः सन्निपातादिति। तद् दृढ़यति। षड़लिङ्गनाशाः
For Private and Personal Use Only