________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३३८
चरक-संहिता। त्रिमीयचिकित्सितम् कदाचिदेव ॥ सितं यदा भात्यसितप्रदेशे स्यन्दात्मकं नाति रुगश्रुयुक्तम् । विहायसीवाभ्रदलानुकारि तदवणं साध्यतमं वदन्ति ॥ गम्भीरजातं बह लश्च शुक्रं चिरोत्थितश्चापि वदन्ति कृच्छम् ॥ विच्छिन्नमध्यं पिशितावृतं वा चलं सिरासक्तमदृष्टिकृच्च। द्विखग्गतं लोहितमन्ततश्च चिरोत्थितश्चापि विवर्जनीयम् ॥ उष्णाश्रुपातः पिड़का च कृष्णे यस्मिन् भवेन्मुद्गनिभश्च शुक्रम् । तदप्यसाध्यं प्रवदन्ति केचिदन्यच्च यत् तित्तिरिपक्षतुल्यम् ॥ सञ्छाद्यते श्वेतनिभेन सर्व-दोषेण यस्यासितमण्डलन्तु। तमक्षिपाकात्ययमक्षिकोपसमुत्थितं तीव्ररुजं वदन्ति ॥ अजापुरीषप्रतिमो रुजावान् सलोहितो लोहितपिच्छिलास्रः। विदार्य कृष्णं प्रचयोऽभ्युपैति तश्चाजकाजातमिति व्यवस्येत् ॥ इति। अथातः सर्वगता व्याख्यास्यन्ते। स्यन्दास्तु चखार इहोपदिष्टास्तावन्त एवेह तथाधिमन्थाः। शोफान्वितोऽशोफयुतश्च पाकावित्येवमेते दश सम्प्रदिष्टाः॥ हताधिमन्थोऽनिलपर्ययश्च शुष्काक्षिपाकोऽन्यत एव वातः । दृष्टिस्तथाम्लाध्युषिता सिराणामुत्पातहर्षावपि सर्वभागाः। प्रायेण सध्य नयनामयास्ते भवन्त्यभिष्यन्दनिमित्तमूलाः। तस्मादभिष्यन्दमुदीर्यमाणमुपाचरेदाशु हिताय धीमान्॥ निस्तोदनस्तम्भनरोमहर्ष-सङ्घर्ष पारुष्यशिरोऽभि. तापाः। विशुष्कभावाः शिशिरात्रता च वाताभिपन्ने नयने भवन्ति॥ दाहप्रपाको शिशिराभिनन्दा धूमायनं वाष्पसमुच्छयश्च। उष्णाश्रुता पोतकनेत्रता च पित्ताभिपन्ने नयने भवन्ति ॥ उष्णाभिनन्दा गुरुताक्षिशोफः करपदेहौ सिततातिशैत्यम्। स्रावो मुहुः पिच्छिल एव चापि कफाभिपन्ने नयने भवन्ति ॥ ताम्राश्रुता लोहितनेत्रता च राज्यः समन्तादतिलोहिताश्च । पित्तस्य लिङ्गानि च यानि तानि रक्ताभिपन्ने नयने भवन्ति ॥ वृद्धरेतरभिष्यन्दैनराणामक्रियावताम्। तावन्तस्वधिमन्थाः स्युनेयने तीव्रवेदनाः॥ उत्पाट्यत इवात्यर्थ नेत्रं निर्मथ्यते तथा। शिरसोद्धन्तु तं विद्यादधिमन्थं स्खलक्षणैः ॥ नेत्रमुत्पाठ्यत इव मथ्यतेऽरणिवच्च यत् । संघर्षतोदनिर्भद-मांससंरब्धमाविलम् ॥ कुश्चनास्फोटनाध्मान वेपथुन्यथनैर्युतम्। शिरसोऽर्द्धश्च येन स्यादधिमन्थः स मारुतात् ॥ रक्तराजिचितं सावि वह्निनेवावदह्यते। यकृतपिण्डोपमं दाहि कारणाक्तमिव क्षतम्। अपकोच्छ नवर्णान्तं सस्वेदं पीतदर्शनम्। मू शिरोदाहयुतं पित्तेनाक्ष्यधिमन्थितम् ॥ शोफवनातिसंरब्धं सावकडू समन्वितम्। रूपं पश्यति दुःखेन पांशुपूर्णमिवाविलम् । नासाध्मानशिरोदुःख-युतं श्लेष्माधिमन्थितम् ॥ बन्धुजीवप्रतीकाशं ताम्यति
For Private and Personal Use Only