________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३३२
चरक-संहिता। [त्रिमौयचिकित्सितम् अरोचके शोकभयातिलोभ-क्रोधाद्यहृद्याशुचिगन्धजे स्यात् । खाभाविकं वक्तमथारुचिश्च त्रिदोषजे नैकरसं भवेत् तु ॥७॥ नादोऽतिरुक् कर्णमलस्य शोषः स्रावस्तनुश्चाश्रवणञ्च वातात् । शोथः सरागो दरणं विदाहः सपीतपूतिस्रवणश्च पित्तात् ॥ वैश्रुत्यकण्डूस्थिरशोफशुक्ल-स्निग्धश्रुतिः श्लेष्मभवेऽल्परुक् च । सर्वाणि लिङ्गानि तु सन्निपातात् स्त्रावश्च तत्राधिकदोषवर्णः ॥७१
गङ्गाधरः-शोकादिजेऽरोचके स्वाभाविकं वक्त भवेदथ चारुचिः स्यात् । त्रिदोषजेऽरोचके बनेकरसं वक्त भवेदिति। मुखगता रोगा व्याख्याता भवन्ति ॥७॥ ___ गङ्गाधरः-अथ कर्णरोगा उच्यन्ते । नाद इत्यादि। वातात् कर्णे नादोऽतिरुक् कर्णमलस्य शोपः स्रावश्चापोऽश्रवणश्च स्यात्। पित्तात् सरागः शोथादिः कर्ण स्यात्। श्लेष्मभवे वैश्रुत्यादि स्यात्। सन्निपातात् कणेरोगे सर्वाणि वातादिजकर्ण रोगलिङ्गानि स्युः स्रावस्तत्र यो दोषोऽधिकस्तद्वर्णः स्यात् । एत एव कर्णरोगाः शालाक्येऽष्टाविंशतिविधा उक्ताः। तद् यथा सुश्रुते“कर्णशूलं प्रणादश्च वाधियं क्ष्वेड़ एव च । कर्णस्रावः कर्णकण्डूः कर्णगूथस्तथैव च। क्रिमिकर्णप्रतीनाही विद्रधिदिविधस्तथा। कर्णपाकः पूतिकर्णस्तथैवाश्चतुर्विधम् । तथाव॒दं सप्तविधं शोफश्चापि चतुर्विधः। पते कर्णगता रोगा अष्टाविंशतिरीरिताः॥ समीरणः श्रोत्रोगतोऽन्यथाचरः समन्ततः शुलमतीव कर्णयोः । करोति दोषैश्च यथास्वमाटतः स कर्णशुलः कथितो दुराचरः॥ यदा तु नाड़ीषु विमार्गमागतः स एव शब्दाभिवहासु तिष्ठति। शृणोति शब्दान् विविधांस्तदा नरः प्रणादमेनं कथयन्ति चामयम् ॥ स एव शब्दाभिघहा यदा सिराः कफानुयातो व्यनुसृत्य तिष्ठति। तदा नरस्याप्रतिकारसेविनो भवेत् तु वाधिय॑मसंशयं खलु॥ श्रमात् क्षयात् रुक्षकषायभोजनात्
चक्रपाणि:-वातादिभिरित्यनेनारोचकानाह-भतिलोभेनाचिरुच्यते। अतिलोभेमारुचि. करणं दशयति ॥ ६९ ॥ ७॥
चक्रपाणिः-नाद इत्यादिना कर्णरोगानाह-एते च शालाक्ये भष्टाविंशतिरुकाः। तथापीह चतुर्वेव कर्णरोगेषु शेषाणामपि कणरोगाणामवरोधो व्याख्येयः, शेषाणामपि वातादि
जन्यत्वात् ॥ ७१ ॥
For Private and Personal Use Only