________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३२६ चरक-संहिता। [त्रिमीयचिकित्सितम आनाते यस्य विशुष्यते च प्रक्लियते धूप्यति यस्य नासा। न वेत्ति यो गन्धरसांश्च जन्तुर्जष्टं व्यवस्येत् तमपोनसेन । तथानिलश्लेष्मभवं विकारं ब्रयात् प्रतिश्यायसमानलिङ्गम् ॥६४ सदाहरागः श्वयथुः सपाकः स्यात् प्राणपाकोऽपि च रक्तपित्तात् । घ्राणाश्रितामृप्रभृतीन् प्रदूष्य कुर्वन्ति नासाश्वय, मलाश्च ॥ धाणे तथोच्छासगतिं निरुध्य मांसप्रदोषादपि चावदानि । प्राणात् स्रवेद वाश्रवणान्मुखाद वा पित्ताक्तमनन्वपि पूयरक्तम् ॥ कुर्यात् सपित्तः पवनः कफादीन्सन्दूष्य चारूषि सदाहपाकम् ॥६५ श्वयथश्च भ्रमश्च स्यात्, तत् पूतिनस्यं विद्यात्। अपीनसमाह-आनह्यत इत्यादि ।। ६४॥
गङ्गाधरः-नासापाकमाह-सदाहेत्यादि। पाकवान् श्वयथुः स्फोटविशेषः । मुश्रुते च-"घ्राणाश्रितं पित्तमरूं'पि कुर्य्याद यस्मिन् विकारे बलवांश्च पाकः । तं नासिकापाकमिति व्यवस्येत् विक्लेदकोथावपि यत्र दृष्टौ ॥” इति। नासाशोथमाह-घ्राणाश्रितेत्यादि। असकप्रभृतीन शोथोक्तान् दृष्यान् घ्राणाश्रितान् मला वातादयः प्रदृष्य चतुर्विधं नासाश्वयथु कुर्वन्ति। सुश्रुते च-“दोषैखिभिस्तैः पृथगेकशश्च ब्रूयात् तथाांसि तथैव शोफान् ।” इति । नासार्बुदमाह-घाणे इत्यादि। घाणे मांसपदोषादुच्छासगतिं निरुध्य सप्तधार्बुदानि भवन्ति। सुश्रुते च–“शालाक्यसिद्धान्तमवेक्ष्य वापि सर्वात्मकं सप्तविधाय्दन्तु।” पूयरक्तमाह। घ्राणादित्यादि। पित्ताक्तमस्र पीतरक्तम् । मुश्रुते च-"दोषैविदग्धैरथवापि जन्तोर्ललाटदेशेऽभिहतस्य तेस्तैः। नासा नवेत् पूयमसम्विमिश्रं तं पूयरक्तं प्रवदन्ति रोगम् ॥” इति। अथारूषि चाहकुर्य्यादित्यादि। सपित्तः पवनः कफादीन् कफरक्तादीन् सन्दूष्य सदाहपाकसपीति नाम कुर्यात् । सुश्रुते-द्वौ नासारोगावपरावुक्तौ भ्रंशथुर्दीप्तश्चेति । तव्यथा-"प्रभ्रइयते नासिकयैव यश्च सान्द्रो विदग्धो लवणः कफस्तु । पाक सश्चितं मूद्धि" च पित्ततप्तं तं भ्रंशथु व्याधिमुदाहरन्ति ॥ घ्राणे भृशं सहन्यनिकः। मस्तुलुङ्गादिति मस्तिष्कात् । सपित्त इत्यादिना अरुचिकामाह- सा तु शिरोभवा ज्ञेया ॥६५॥६५॥
For Private and Personal Use Only