________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६श भध्यायः
२६श भध्याया] चिकित्सितस्थानम् ।
३३२७ भृशार्तिशूलं स्फुरतीह वातात् पित्तात् सदाहार्ति कफाद गुरु स्यात् ॥ सबै स्त्रिदोषं क्रिमिजं सकण्डु
दोर्गन्ध्यतोदार्तियुतं शिरः स्यात् ॥६६॥ मुखामये मारुतजे तु शोथः कार्कश्यरोदयेऽतिबला रुजश्च । कृषणारुणं निष्पतनं सशीतं प्रस्र सनस्यन्दनतोदभेदाः॥ तृष्णाज्वरस्फोटकदाहपाका धूमायनश्चाप्यवदोर्णता च। पित्तात् समूर्छा विविधा रुजश्च वर्णाश्च शुक्लारुणपाण्डुवर्जाः॥ कण्डूगुरुत्वं सितविजलत्वं स्वेदोऽरुचिर्जाड्यकफप्रसेको। उत्क्लेशमन्दानलता च तन्द्रा रुजश्च मन्दाः कफवक्तरोगे। दाहसमन्विते तु विनिःसरेद धूम इवेह वायुः। नासा प्रदीप्तेव च यस्य जन्तो. याधिन्तु तं दीप्तमुदाहरन्ति” ॥६५॥
गङ्गाधरः-अथ शीर्षास्यकर्णाक्षिरोगाः क्रमेणोच्यन्ते। भृशा त्यादि। पञ्च शिरोरोगाः कियन्तःशिरसीये विस्तरेणोक्ताः, इह चिकित्साथ संग्रहेणाइ। वातात् शिरो भृशातिशूलं स्फुरतीव। पित्तात् सदाहार्ति सत् शिरः स्फुरतीक। कफात् गुरु सत् शिरः स्फुरतीव। त्रिदोषं शिरः सर्वं रूपैः स्फरति। क्रि मिजशिरोरोगयुतं शिरः सकण्डु स्याद् दौर्गन्धादियुतञ्च स्यादिति पञ्च शिरोरोगाः॥६६॥ : गङ्गाधरः-अथास्यरोगा उचान्ते। मुखामय इत्यादि। मारुतजे मुखसेगे शोफादयस्तोदभेदान्ता भवन्ति। कार्कश्यरौक्ष्ये द्विवचनान्तत्वेन प्रगृह्यमपि उत्सर्ग विधिः संहिता विवक्षिता न तु प्रकृतिभाव इति। तृष्णेत्यादि। शुक्लाऽरुणपाण्डुवर्णभिन्ना वर्णाः । पित्तान्मुखामये तृष्णादयः स्युः। कण्डूरित्यादि। कफवक्तरोगे कण्डूप्रभृतयः रयुः। सितं श्वेतं विज्जलं पिच्छिलं मुखम् ।
चक्रपाणिः-भृशार्तीत्यादिना यद्यपि प्रतिश्यायोत्पनत्वेन शिरोरोगाणां लक्षणमुच्यते, तथापि स्वतन्त्रोत्पन्नानामपि शिरोरोगाणामेटदेव लक्षणं ज्ञेयम्। एवं मुखरोगादिषु लक्षणेषु वाच्यम् । सम्वस्त्रिदोषमिति वातादिमिलितैलक्षणेत्रिदोषं स्यादित्यर्थः ॥ ६६ ॥ चक्रपाणिः-निष्पतनमिति मुखेनैव । तृष्णेत्यादि पित्तजमुखरोगलक्षणम्। यपि शालाक्ये
For Private and Personal Use Only